________________
[है० ३.१.५८.] पञ्चमः सर्गः।
३९३ वर्षजात । श्यब्दजात । इत्यत्र “काल:'" [५७] इत्यादिना तत्पुरुषः॥ स्वयमुधुकः । सामिविद्रुतम् । इत्यत्र "स्वयं"[५०] इत्यादिना तत्पुरुषः ॥
अखवारूढभूपालाः षण्मुहूर्ता न्वहःसृताः ।
तस्थुस्तद्वृद्धये पार्वेहोरात्रस्नेहशालिनः ॥ ५६ ॥ ५६. अखट्वारूढा अनिन्द्या ये भूपाला नृपास्ते तद्वद्धये तस्य प्रा. हारेविजयोत्थस्फीत्यर्थ ग्राहारेः पावें तस्थुः । यतोहोरात्रं सदा यः स्नेहोनुरागस्तेन शालन्ते शोभन्ते तं शलन्ति वा गच्छन्तीत्येवंशीलाः षण्मुहूर्ता न्वहःसृता इति । यथा षड् मुहूर्ता घटिकाद्वयमानकालवि. शेषा अहोरात्रस्नेहशालिनो दक्षिणायने रात्रिचारित्वादुत्तरायणेहश्चारित्वाच्चाहोरात्रेषु यः स्नेहः सदा सहचारित्वेनानुराग इव तच्छालिनोत एवाहर्दिनं मृताः संक्रान्ताः सन्तस्तदृद्धयेहवृद्धये पावें दिनमध्ये तिष्ठन्ति । मध्यदेशे हि सूर्योदयास्तविशेषेण दिनं नक्तं च परमबृहदष्टादशमुहूर्तमानं परमलघु च द्वादशमुहूर्तमानम् । तत्र यदा दक्षिणायनं स्यात्तदा कर्कसंक्रान्यादिदिनादारभ्य धनुःसंक्रान्त्यन्त्यदिनं यावत्प्रतिसंक्रान्ति दिनेभ्यो रात्रिध्वेकैकं मुहूर्त संचरति । यावद्धनु:संक्रान्त्यन्त्यदिने षडपि मुहूर्ता रात्रिषु दिनेभ्यः संक्रामन्ति । यदा चोत्तरायणं स्यात्तदा मकरसंक्रान्त्यादिदिनादारभ्य मिथुनसंकान्त्यन्यदिनं यावत्प्रतिसंक्रान्ति रात्रिभ्यो दिनेष्वेकैकं मुहूर्त संचरति । यावन्मिथुनसंक्रान्त्यन्त्यदिनं रात्रिभ्यो दिनेषु षण्मुहूर्ताः संक्रामन्ति । अत एव वृत्तावुक्तं षण्मुहूर्ताश्चराचरास्ते रात्री गच्छन्ति दक्षिणायन उत्तरायणे त्वहरिति । तथा चोक्तं भगवति श्रीजैनागमे । १ ए सी डी : स्मृताः ।। १ डी रात्रं से". २ सी होसनेषु. ३ सी न्त्यदि. ४ सी दिनरा. ५ सी °वुक्तप.
-