________________
३९२
व्याश्रयमहाकाव्ये
[ मूलराजः]
सोध्यास्तोत्तलपादोग्रहस्तोपात्तवरत्रया। गजं पादतलन्यञ्चद्भुवं हस्ताग्रमुद्गरम् ।। ५४ ॥ ५४. स ग्राहारिरारोहवशादुदूर्ध्वस्तलपादः पादतलं यस्य स तथा सन्नग्रहस्तेन हस्ताग्रेणोपात्ता गृहीता या वरत्रा कक्षा तया गजमध्यास्तारोह । किंभूतं सन्तम् । हस्ताने शुण्डाग्रे मुद्गरो यस्य तम् । तथा पादतलेन न्यञ्चन्ती भारातिरेकानमन्ती भूर्यस्य तम् ॥
अधजरतीयम् जरत्यर्ध । इत्यत्र "जरत्यादिभिः" [५५] इति वा तत्पुरुषः॥ द्वितीयसेना । तृतीयारिसेनया । तुर्यकुप्यम् । अग्रहस्त । उत्तलपादः । इत्यत्र "द्विग्नि" [५६] इत्यादिना वा तत्पुरुषः । पक्षे । भूद्वितीयम् । श्रीतृतीयम् । मापतुर्य । हस्तान । पादतल ॥
वर्षजाताहिभीमपूरूयब्दजातहरेः समः।
सैन्यं स स्वयमुद्युक्तोस्थापयत्सामिविद्रुतम् ॥ ५५ ॥ ५५. स पाहारिः सामिविद्रुतम|पप्लुतं सैन्यमस्थापयत्समधीरयत्। कीदृक्सन् । वर्ष जातस्य वर्षजातो योहिः सर्पस्तद्वदीमे कोपाटोपाद्रौद्रे
भ्रवौ यस्य सः । वर्षप्रमाणोहिः प्रौढत्वादतिभीम: स्यात् । तथा । त्रयोदा वर्षाणि जातस्य त्र्यव्दजातो यो हरिः सिंहस्तस्य समः
शौर्येण तुल्योत एव स्वयमुद्युक्तो रणायोर्चतः ।।
. १सी साध्या.
१बी कक्ष्या त.२ ए ग्रे शृण्डा. सी ग्रे मु. ३ सी प्रत्या. ४ बी गो हि महि: ५वी मः सौ. ६सी पत व.