________________
[ है० ३.१.५४.]
पश्चमः सर्गः।
सायाह्नमध्याह्नौ "सायावादयः" [५३] इति साधू ॥ अर्धदृष्टया । दृष्टयर्थेन । इत्यत्र "समेंशेधैं न वा" [१४] इति वा तत्पुरुषः ॥ समेंश इति किम् । दंष्ट्रिकार्धम् ॥
धिगधजरतीय कः प्राग्जरत्यर्धहासिनाम् । भग्ना द्वितीयसेना नो यत्तृतीयारिसेनया ॥ ५२ ॥ भूद्वितीयं श्रीतृतीयं तुर्यकुप्यं मुधैव वः । मदत्तं माषतुर्याल्पा इत्युक्त्वा सोग्रहीद्धनुः ॥५३॥ ५२,५३. स पाहारिर्धनुरग्रहीत् । किं कृत्वा । उक्त्वा । किमित्याह । हे माषस्य मदनधान्यस्य तुर्यश्चतुर्थो भागस्तद्वदल्पास्तुच्छा अल्पसत्त्वाः प्राक्पूर्व जरत्या अर्धे जरत्यध किंचिद्यौवनं किंचिद्वार्धक्यम् । अनेन च शुभाशुभरूपमर्धनिष्पन्न कार्य व्यज्यते । तद्धासिनां महाशूरंमन्यतयान्यदीयजयाजयरूपार्धनिष्पन्न कार्योपहासिनां वो युष्माकम जरत्या अर्धजरती किंचिद्यौवनं किंचिद्वार्धक्यं तस्यास्तुल्यं "काकतालीयादयः" ७.१.११७] इतीये अर्धजरतीयं जयाजयरूपमर्धनिष्पन्न कार्य धिग्गामहे । यद्यस्माद्धेतोोस्माकं द्वितीयसेना सेनाया द्वितीयो भागस्तृतीयारिसेनया शत्रुसेनायास्तृतीयेन भागेन भग्ना नाशिता तथाव एव वो युष्मभ्यं भूद्वितीयं भूमेद्वितीयो भागः श्रीतृतीयं लेक्ष्म्यास्तुतीयो भागस्तुर्यकुप्यं कुप्यस्य हेमरूप्याभ्यामन्यस्य ताम्रादेश्चतुर्थों भागो मुधैव निरर्थकमेव प्रदत्तमिति ॥
१वी वार्षिक्य. २ डी रूप द्वयम'. ३ ए सी ये विज्य. ४ ए भूदिती' सी भूदि. ५ ए लक्ष्मा. सी लक्ष्मी. डी लक्ष्मास्त्र'.