________________
३९०
ब्याश्रयमहाकाव्ये
[ मूलराजः] अहितान् । इत्यत्र “नम्" [५१] इति तत्पुरुषः ॥ निवृत्यमानतद्भावश्चो. तरपदार्थः । पर्युदासे नन्समासार्थः । प्रसज्यप्रतिपेधे तु नम्पदान्तरेण सवध्यत इत्युत्तरपदं वाक्यवत्स्वार्थ एव प्रवर्तते तत्रासामर्थ्यपि यथाभिधानं बाहुलका. रसमासः । असूर्यपश्यान् । अपुनर्गेय । अश्राद्धभोजी। अलवणभोजी । अकार्णवेष्टकिकान् । अवत्सीयान् । अवध्य । असांतापिकः ॥
पूर्वकायेपरकायेधरकायोत्तराङ्गयोः।
खान्क्षुण्णान्वीक्ष्य सायावाग्निवद्राहारिरज्वलत् ॥ ५० ॥ ५०. सायाहे संध्यायां योग्निस्तद्वद्वाहारिरज्वलत्कोपाजाज्वल्यमानोभून । कि कृत्वा । स्वानात्मीयान्भटाञ् ज्ञातीन्वा वीक्ष्य । किभूतान् । कायस्य पूर्वभागे हृदयादौ कायस्यापरभाग ऊर्वादो कायस्याधरभागे पादादावङ्गस्योत्तरभागे मूर्धादौ क्षुण्णान्प्रहतान् ॥
मध्याह्नार्कनिभः सोधदृष्टयेलिष्ट द्विषां वलम् ।
दृष्ट्यर्धेन च वाहू स्वौ दंष्ट्रिका) परामृशन् ॥५१॥ ५१. स ग्राहारिमध्याह्नार्कनिभ: कोपाटोपार्चिभिः प्रहरद्वयसत्करविवज्जाज्वल्यमानः सन्नर्धदृष्ट्या बलावलेपादवज्ञया नेत्रार्धभागेन द्विपां बलं सैन्यमैक्षिष्ट । तथा दंष्ट्रिकाध परामृशन्स्वपौरुपावलेपोत्क
दाढिकाकेशार्धभागं पाणिना गृहन्सन् पौरुपमदेन वक्रीकृताक्षत्वाहष्टयर्धन स्वौ वाहू चैक्षिष्ट ।।
पूर्वकाये । अपरकाये । अधरकाय । उत्तराङ्गयोः । इत्यग्र “पूर्वा" [५२] इत्यादिना तत्पुरुषः ॥ १ ए सी चीक्ष सा. २ सी भः सौ. १ ए सी वादृष्टय'. २ ए सी मध.