________________
[है० ३.१.५१.] पञ्चमः सर्गः।
३८९ असिघातम् । शस्याघातम् । इत्यत्र "तृतीयोक्तं वा" [५०] इति वा तत्पुरुषः।।
अहितानकृतासूर्यपश्यान्स शरदृष्टिभिः ।
अपुनर्गेयवाक् क्रुद्धोश्राद्धभोजी द्विजो यथा ॥४८॥ ४८. सोर्बुदेश्वरोहितानरीञ् शरवृष्टिभिः कृत्वा व्याप्तव्योमत्वात्सूर्यमपि न पश्यन्त्यसूर्यपश्यास्तानकृत चक्रे । कीहक्सन् । क्रुद्धोत एव पुनर्न गेया न वक्तुं शक्या वाग्यस्मिन्स तथातिरौद्र इत्यर्थः । श्लेषोपमामाह । यथाश्राद्धभोजी श्राद्धं न भुङ्क्ष इतिव्रतोतिनैष्ठिक इत्यर्थः । द्विजः क्रुद्धोत एवापुनर्गेयवाक्सन् शरवृष्टितुल्यैः शापवचनैरहितानपराद्धनसूर्यपश्यानन्धान्करोति । अतिनैष्ठिकद्विजो हि कुपितः सत्यशाप एव स्यात् ।।
स्वक्षोलवणभोजीवाकार्णवेष्टकिकान्स तान् । अवत्सीयानवध्यन्नोभि नासान्तापिकोभवत् ।। ४९॥
-
-
४९. अवध्यान्वधानहा॑न् द्विजगोवत्सादीन्दैत्यत्वेन म्नन्ति ये तानवध्यनोत एवावत्सीयान्न वत्सेभ्यो हितांस्तान्दैत्यानभि इत्थंभूतेत्राभिः । सोर्बुदेश्वरः सांतापिक: "तस्मै योगादेः शके" [६.४.९४] इतीकरें। सं. तापाय न शक्तो नाभूत् । द्वौ नबौ सातिशयमर्थ गमयत इत्यत्यन्तं संतापाय शक्तत्वप्रकारमापन्नोभवत् । यतोकार्णवेष्टकिकान्कर्णवेष्टकाभ्यां न शोभमानान्कर्णाद्यगावयवच्छेदेन कुण्डलशोभारहितान् । स च कीहक् । स्वक्षो जितकाशित्वेन प्रमुदितत्वात्पटुविकसितनेत्रोलवणभोजीव । यथा लवणमभुञ्जानो रक्तााद्रेकोत्थरोगाभावेन स्वक्षः स्यात् । अर्बुदेश्वरं हसिताक्षं वीक्ष्य प्रहारजर्जरितागाः शत्रवः संतेपुरित्यर्थः ।।
१ सी माद, २ ए सी ण् । साता. ३ बी तकासित्वे'.