________________
३८८ स्याश्रयमहाकाव्ये
[मूलराजः] लानि शत्रुसैन्यानि परियुद्धानि युद्धाय परिग्लानानि नियुद्धानि युद्धानिष्क्रान्तानि च व्यधात् । कीशि सन्ति । प्रतिलोमानि लोमानि प्रतिगतानि प्रतिकूलं गतानीति व्युत्पत्तिमात्रं लक्षणया द्विषन्ति । तथावेभानीभैरवक्रुष्टानि गजवृंहितोपेतानीत्यर्थः । तथा संवर्माणि वमणा संनद्धानि ॥
अतिक्रमे । अतिसिञ्चन् ॥ पूजायाम् । अतिराजा । इत्यत्र "अतिर्'' [५] इत्यादिना तत्पुरुषः ॥
आतान्न । इत्यन्न "आडल्पे" [१६] इति तत्पुरुषः ॥ प्रादयः । प्रभटान् । विपक्ष ॥ अत्यादयः । अतिवेलः । प्रतिलोमानि ॥ अवादयः । अवैभानि । संवर्माणि ॥ पर्यादयः । परियुद्धानि । उद्गणः ॥ निरादयः । निर्युद्धानि । अपभीः । इत्यन्न "प्रात्यव" [४७] इत्यादिना तत्पुरुषः ॥
पुनःप्रवृद्धरोमाञ्चपुनरुत्स्यूतकञ्चकः ।
परमारः सोसिघातं शख्याघातं द्विषोक्षिपत् ॥ ४७ ॥ ४७. परान् शत्रून्मारयति "फर्मणोण्" [५.१.७२] इत्यणि परमारः । परमारः क्षत्रियविशेषजातिः । सर्वदेश्वरोसिघातं खङ्गेन हत्वा शख्याघातं क्षुरिकया हत्वा च द्विषोक्षिपनिराकरोत् । कीडक्सन् । पुनः प्रवृद्धा वीररसोत्कर्षायः स्फीतीभूता ये रोमाञ्चास्तैः पुनरुत्स्यूतो भूयस्तुटितः कञ्चको वर्म यस्य स तथा ॥ पुनःप्रवृद्ध । पुनरुत्स्यूत । इत्यत्र "अव्ययम्' [८] इत्यादिना तत्पुरुषः ॥ परमारः । इत्यत्र "हस्युक्तं कृता" [४९] इति तत्पुरुषः ॥
१ ए सी युधाय. २ ए सी नियु. डी नि यु'. ३ सी °नि प्रति प्र. ४ वी सपद्धा'. ५ ए सी डी प. ॥ अता. ६ ए सी दय । अ. ७ ए थी सी मारक्ष. ८ सी पु. ९ वी मृद्धः । पु.