________________
[है• ३.१.४४.] पथमः सर्गः।
३८७ तृणानीवोत्क्षेप्नुमुत्पाटयितुं शरदुर्दिनं शरैः कृत्वा प्रकाशाभावेन निन्दितं दिवसं चके । किं कृत्वा । असती कुत्सिता ज्या यत्र तदकुज्यकं श्रेष्ठप्रत्यञ्चं धन्व धनुः स्वीकृत्य । यतः कीदृक् । अदुष्कृतो महाशूरत्वादकृच्छेण विहितो जयोनेकारिपराभवो येन सः । अनेकरणेपु लब्धजयपताक इत्यर्थः ।।
स्वीकृत्य । कुतृणवत् । इत्यत्र "गतिकु" [४२] इत्यादिना तत्पुरुषः ॥ अन्य इति किम् । अकुज्यकम् । अत्र बहुव्रीहित्वात्कच् स्यात् ।। दुर्दिनम् । दुष्कृत । इत्यत्र "दुर्" [१३] इत्यादिना तत्पुरुषः॥ सुराजा । इत्यत्र "सुः पूजायाम्" [१४] इति तत्पुरुषः ॥
श्रीमालस्यातिराजातिसिञ्चन्नाताम्रक् शरैः। विपक्षप्रभटान्व्यामोदतिवेल इवार्णवः ॥ ४५ ॥ ४५. श्रीमालस्य भिल्लमालापरनाम्नः पुरस्यातिराजा न्यायपालनेन पूजितोधिपोर्बुदेश्वरो विरुद्धाः पक्षा विपैक्षाः शत्रवो ये प्रभेंटाः प्रकृष्टा भटास्तान शराप्नोदाच्छादयत् । कीहक्सन् । आताम्रहकोपेनारक्ताक्षोत एव शरैरतिसिञ्चन् रणाङ्गणमतिक्रमेण व्याप्नुवन्नत एव चोत्लेक्ष्यते । अतिवेलो निर्मादोर्णव इव ।।
प्रतिलोमान्यवेभानि संवर्माणि बलानि सः। उद्रणः परियुद्धानि नियुद्धान्यपभीर्व्यधात् ॥ ४६॥ ४६. सोर्बुदेश्वरोपभीरपगतो भियोत एवोद्रणो रणायोद्युक्तः सन्ब
१ ए सी डी भीव्यधा'.
१सी नीवाक्षेसु. २ ए सी डी यतो की. ३५ सी पक्षाश. ४ थी भटाप्र. ५ डी रक्षाक्षो. ६ बी रैरिति.