________________
३८६ व्याअयमहाकाव्ये
[मूलराजः] नाना सह यशःपर्यन्तं नामधेयपर्यन्तं वा यश:साकल्येन नामधेयसाकल्येन वा यशो नामधेयं वा यथा पश्चान्न स्थितमेवमित्यर्थः ॥
महरन्स ययाधर्म सद्रोणं धनुषा वहन् ।
त्रायमाणो यथावस्तं तथा रेजे यथार्जुनः॥४३॥ ४३. यथार्जुनो रेजे तथा सोर्बुदेश्वरो रेजे यतो यथाधर्म क्षात्रधर्मस्यानतिक्रमेण प्रहरंस्तथा धनुपा धनुःकर्मणा कृत्वा सद्रोणं द्रोणाचार्यसादृश्यं वहंस्तथा यथावस्तं येये भीतास्तांस्त्रायमाणो रक्षन् ।
द्विपरि । अक्षपरि । शलाकापरि । हत्यत्र "संख्याक्ष" [३८] इत्यादिना. म्ययीभावः ॥
अध्याजि । उपनदि । सुमिक्षम् । दुःसुराष्ट्रम् । निःसुराष्ट्रम् । अतिम्लेच्छम् । अत्यनम् । अनुद्विपम् । अनुज्येष्टम् । इतिमूलराजम् । सचक्रम् । सकुलम् । सकीर्ति ॥ साकल्येन्ते च । सार्णवम् । सनाम । इत्यत्र "विभक्ति" [३९] इत्यादिनाग्ययीभावः ॥
अनुरूपम् । प्रत्यरि । यथाधर्मम् । सद्रोणम् । इत्यग्न "योग्यता" [४०] इत्यादिनाव्ययीभावः ॥
यथावस्तम् । इत्यन "यथाथा" [४१] इत्यव्ययीभावः ॥ अथा इति किम् । यथार्जुनः॥
स्वीकृत्याकुज्यकं धन्वोत्क्षेप्तुं कुतृणवत्परान् । सोदुष्कृतजयश्चक्रे सुराजा शरदुर्दिनम् ॥४४॥ ४४. सुराजा न्यायित्वात्पूजितो नृपोर्बुदेश्वरः परान्कुतृणवदसार१ सी र्जुनो रे. १ ए सी अज्याजि ।.
-
-