________________
३८५
[है० ३.१.३८.] पश्चमः सर्गः। निलीना इत्यर्थः । किंभूताः सन्तः । अत्यत्रं शस्त्राणां ग्रहणे प्रस्तावाभावं ग्रुवन्त: । केषु सत्सु । तेष्वदात्प्राच्येषु नृपेषु । कीदृक्षु । दुःसुराष्ट्र सुराष्ट्राणां सुराष्ट्रादेशस्थभटानां छत्रपातनादिना ऋद्धेविगमं निःसुराष्ट्र सुराष्ट्राभटानामभावमतिम्लेच्छं म्लेच्छौनां भिल्लादीनामती. तत्वं सतामेवातिक्रमं च विधायिषु ।
नानुज्येष्ठमयुध्यन्तेतिमूलराजमिच्छवः । सचक्रं धेहि सकुलं कुर्वित्यन्योन्यवादिनः ॥४१॥ ४१. अर्बुदात्याच्या नृपा अनुज्येष्ठं ज्येष्ठानुक्रमेण नायुध्यन्त क्रम मुक्त्वाहमहमिकया युयुधिर इत्यर्थः । कीदृशाः सन्तः । इतिमूल• राजं मूलराजशब्दस्य लोके जयोत्यां ख्यातिमिच्छवोत एव सचक्र धेहि सकुलं कुर्वित्यन्योन्यवादिनश्चक्रास्त्रेण सहककालं खगादिकं धारय चक्राणि वा युगपद्धारय । तथोत्कृष्टयुद्धेन कुलस्य सदृशं कुर्विति मिथो भाषिणः ॥
सकीर्ति सार्णवं भर्तुर्भूयादित्यर्बुदेश्वरः । सनामारीनहन्मत्यर्यनुरूपं कृतायुधः ॥ ४२ ॥ ४२. भर्तुर्मूलराजन्य सकीर्ति कीर्तेः संपत्सार्णवेमर्णवसाकल्येन सकलेवर्णवेष्वित्यर्थः । यद्वार्णवपर्यन्तं यथा स्यादेवं भूयादिति हेतोबुंदेश्वरोरीनहन् । कीहक्सन् । प्रत्यर्यरिमरि प्रत्यनुरूपं रूपस्य स्वाकृतेयोग्यं यथा स्यादेवं कृतायुधो व्यापारिताखः । कथमहन् । सनाम
१ सी हि सकु. २ सी रूपकृ.
१ डी राष्ट्रा . २ ए सी नि.पुरा. ३ ए सी च्छामि . ४ सी कीर्तिः सं. ५ वी वसा. ६ सी पस्या स्वा.