________________
३८२ व्याश्रयमहाकाव्ये
[मूलरामः] न्वर्जयित्वापात चं प्रहारादिना पीडितांश्च वर्जयित्वा । तथा यावद्रिपु यावन्तो रिपवस्तार्वत इत्यर्थः । तथा आजयं विजयं मर्यादीकृत्य ॥
सेना पागदं राज्ञां बहिव्यूहं प्रतिद्विपम् ।
अभ्यश्वं च प्रसृत्यानुजम्बुमालि स्थिता वभौ ॥ ३७॥ ३७. प्रागवुदमर्बुदाद्रेः प्राक्पूर्वदिग्वासिनां राज्ञां मूलराजनृपाणां सेना बभौ । कीटक्सती । बहिहं मूलराजीयाञ्चक्रगरुडादेयूँहादहिर्भूता । तथा प्रतिद्विपमभ्यश्वं च प्रसृत्य रिपूणां द्विपानश्वांश्च लैक्ष्यीकृत्याभिमुखं विस्तीर्यानुजम्बुमालि स्थितातिबहुत्वाजम्बूमाल्या लक्षणभूताया आयामेनावस्थिता । अर्बुदसेनातिशूरत्वाब्यूहानिर्गत्य युद्धार्थ शत्रूनभि प्रसृतेत्यर्थः ।। फचाकचि । कुन्ताकुन्ति । इत्यत्र "सत्रादाय" [२६] इत्यादिनाग्ययीभावः ॥ लोहितगङ्गम् । इत्यत्र “नदीभिर्नाग्नि" [२७] इत्यव्ययीभावः ॥ पञ्चनदम् । त्रिगोदावरम् । इत्यत्र "संख्या" [२८] इत्यादिनाध्ययीभावः ॥ मन्ये तु पूर्वपदप्राधान्येव्ययीभावो गोदावरीणां त्रित्वं निगोदावरम् । समाहारे द्विगुरेवेत्याहुः । द्वयोर्गोदावर्योः समाहारो द्विगोदावरि ॥ द्विमुन्यस्य । सप्तकाशि स्वराज्यस्य । इत्यन्त्र "वंश्येन" [२९] इत्यादिनाम्ययीभावः ॥ यदा तु विद्यातद्वतामभेदविवक्षा तदैकमुनि धनुर्वेदमित्यादि सामानाधिकरप्यं स्यात् ॥
-
१सी मूलराजी.
१५ सी च पाहा. २५ सीसी वन्त १०. १५ सी सी लक्षीत. ४सीसी क्षणामू.