________________
[.. ३.१.२६.] पचमः सर्गः । त्रिगोदावरं च मेने । प्राणत्यागेन स्वर्गफलत्वाहिगोदावरित्रिगोदावरतीर्थयोस्तुल्यं मेन इत्यर्थः । लोके हि द्विगोदावरि त्रिगोदावरं च तत्र प्राणत्यागिनां स्वर्गहेतू महातीर्थे प्रसिद्धे । कीहक्सन् । एको मुनिवंश्य आद्यः कारणपुरुषोस्य तदेकमुनि धनुर्वेदं धनुर्विद्याशाखं दर्शयन्सदभ्यस्तधनुर्विद्यत्वेनालीढादिस्थानानि सम्यक्सत्यापयन् । तथास्य धनुर्वेदस्य द्विमुनि च द्वौ मुनी वंश्यो चे दर्शयन् द्विमुनिकृतधनुर्वेदोक्तधनुःकलानां सम्यक्सत्यापनेन द्वौ मुनी साक्षादिव दर्शयन् ॥
सप्तकोशि खराज्यस्य गङ्गापारपंतिः स्मरन् । पारेरिचमु मध्येश्वमिभमध्येर्दयन्ययौ ॥ ३५॥ ३५. गङ्गापारपतिर्गगातीराधिपो मूलराजसेवकः काशिदेशराजः पारेरिचर्मु शत्रुसेनापारं ययौ । कीडक्सन् । स्वराज्यस्य सप्तकाशि सप्रकाशीन्काशिदेशाधिपान्ववंश्यान्स्मरन् सप्तापि स्वानि कुलानि रणपारगतादिगुणोपेतानि परिभावयन्नित्यर्थः । अत एव मध्येश्वं तुरङ्गचमूमध्य इभमध्ये हस्तिचमूमध्येर्दयन्नरिचमूं नन् ।
कोप्यन्तर्धनुराज्यन्तः कराग्रेग्रेधिपं शरान् ।
यावद्रिपु परिक्लीवमपात चाजयं न्यधात् ॥ ३६॥ ३६. कोपि गूर्जर आज्यन्ता रणमध्येगेधिपं स्वखाम्यने वर्तमानोन्तर्धनुश्चापमध्यभागे कराम आकर्णान्तमाकृष्टत्वाद्धस्तयोरग्रभागे च वर्तमानान् शरान्यधाच्छत्रुष्वक्षिपत् । कथम् । परिक्लीबं निःसत्वा
१९ सी कासि व. २ ए सी पति स्म'.
१बीवरीती'. एसी शामद. ३ बीच तु द. ४ ए सी मुसि. ५री मध्ये .