________________
व्याश्रयमहाकाव्ये
[मूलराजः] चटकिकाः घटकका । इत्यत्र "स्वशाज" [१०८] इत्यादिना वेकारः । धातुत्यवर्जनं किम् । सुनयिकाः । निःशकिका । अमात्यिका ॥
द्विके द्वके । एपिका एषका । सूतिके सूतके । पुत्रिका पुत्रका । वृन्दारिका वृन्दारका । इत्यत्र "येष” [१०९] इत्यादिना वेकारः ॥
द्विड्भ्यो हर्तुं श्रियं श्येनी वर्तकाभ्यो नु वर्तिकाम् । युद्वर्तिका जटिलिकोत्तस्थौ मर्वीशबन्धुता ॥ १४ ॥ १४. युर्तिका रणकृत्सती मर्वीशबन्धुता मूलराजसेवकमरुदेशाधिपबन्धुसमूहो द्विड्भ्यः सकाशाच्छियं जयलक्ष्मी हर्तुमुत्तावुद्यताभूत् । कीदृशी। जटाः संश्लिष्टकेशाः क्षेप्याः सन्त्यस्या जटिलीज्ञाता जटिला जटिलिका लोमशा । स्वरूपविशेषणमिदम् । यथा श्येनी पत्रिणी वर्तकाभ्यश्चटकाभ्यः सकाशाद्वर्तिकां चटकां हर्तुमुत्तिष्ठति ॥
नन्दका वः सकास्तु द्विट्रिपका ध्रुवका यका ।
भुजेति नरिकामूचुर्मामिकासीत्यहंयवः ॥ १५॥ १५. नरानाद्भटान्कायति वर्णयति नरिका तां वृद्धस्त्रियं भट्टिनी वा मामिकासि मदीया त्वमित्यहंयवोहंकृता मूलराजयोधा ऊचुस्तव योगक्षेमौ वयं करिष्याम इति बहु मेनिर इत्यर्थः । कथं नरान्कायतीत्याह । सकाज्ञाता सा वो युष्माकं भुजानन्दकारिजयोद्वृद्धिहेतुरस्त्व लोकानाम् । यकाज्ञाता या ध्रुवका दृढा सती द्विगु शत्रुषु क्षिपके
१ ए सी डी जटलि'. २ ए सी स्थौ मुवी. ३ ए सी का द्रुव.
२ ए सी डी "किका। च. २ ए सी डी स्वजाज'. ३ ए डी "यिका । नि. सी यिका । अ. ४ ए सी °का । वृन्दिका । वृ. ५ बी इतत्र. ६ ए सी स्थान. ७ए सी जटास. ८ ए सी डी ला जटिलि'. ९ए सीटी वतिका. १० वी वृद्धिलि. ११ ए सी या वृद्धि