________________
३६८
व्याश्रयमहाकाव्ये
[मूलराजः] विजयः सूचितः शुभनिमित्तत्वात् । कीदृशी । युद्धे रणकर्मणि शिका. ज्ञातपण्डिता तथा यते निषादिनां पादकर्मणि ज्ञका तयौजो बलं तेजो वा उदेव स्वं धनं यस्याः सात एव जय एव खं धनं यस्याः सात एवं सुरेभस्यैरावणस्य स्वकाशातातिरिव तथानेकजन्तुसंहारित्वाद्रौद्राकारत्वाच मृत्योर्यमस्य स्विका ॥
अजिकाचर्मपर्याणारिं हन्तुमजकामिव । तत्वरेश्वचमू सेषुभस्त्रिका साम्बुभत्रका ॥ १० ॥ १०. अश्वचमूर्मूलराजीयाश्वसेनारिमंजकामिव कुत्सितां छागीमिव हन्तुं तत्वरे रयेणाचलन् । कीदृशी। अज्ञाता छाग्यजिका तस्याश्चर्मणा पर्याणं पल्ययनं यस्याः सा । तथा सेषवो बाणभृता मनास्तूणा यस्यां सा । तथा सहाम्बुभत्रया जलदृतिना वर्तते या सा। तथाज्ञाता साम्बुभस्त्रा साम्बुभत्रका ॥
त्रियिकाः क्षत्रियकापुत्रांश्चटकिकाचटौ । द्विषच्चटककाश्येनानूचुः मुनयिका युधि ॥ ११॥ ११. क्षत्रियिका अज्ञातक्षत्रियस्त्रियो द्विषटककाश्येनाञ् शत्रुकु. त्सितचटकासु श्येनतुल्यान् क्षत्रियकापुत्रान्क्षत्रियान्युधि युद्धार्थमूचुः युद्धं क्रियतामित्यूचुरित्यर्थः । कीदृश्यः सत्यः । अज्ञाताः सुनयाः सुनयिकाः शोभननीतिज्ञा अत एव चटौ चाटुवचने विषये चटकिका अज्ञातचटकातुल्याश्चाटुकारिण्यः । एतेन मूलराजीयक्षत्रियस्त्रीणामपि युद्धविषय उत्साह उक्तः ॥ १बी सकाः ॥ २ ए सी युधिः ॥ १सी युधेर'. २ ए सी तेजे वा. ३ बीच च सु. ४ ए सी हारितिव. ५ ए सी न्तुसहा. ६ ए सी कारित्वा. ७एबीसीडी मजिका'. ८ ए सी डी पल्य'. ९ सीटका. १० वी युक्तार्य. ११ वी शात'.