________________
घ्याश्रयमहाकाव्ये
पञ्चमः सर्गः।
शैलप्रस्थमहित्रातरेवतीमित्रभूभुजाम् ।
सैन्येभूत्तस्य पुंनाव्यनान्दीतूर्य ध्वनद्धनुः ॥१॥ १. तस्य मूलराजस्य सैन्ये । शिलानां प्रस्थमिव शिलप्रस्थं नाम पुरं वत्र भवःशैलप्रस्थः । महीं त्रासीष्टासौ "तिकृतौ नाम्नि" [५.१.७१] इति के । महित्रातो नाम । रेवती मित्रमस्य रेवतीमित्रो नाम । पदयद्वन्दे ते ये भूमुजो मूलराजनृपास्तेषां ध्वनेज्याकर्षवशाच्छब्दायमानं धनुरभूत् । कीरक । नान्दी पूर्वरङ्गाङ्गं द्वादशतूर्याणां निर्घोषः । तानि चेमानि ।
भम्भा-मुकुन्द-महल-कडम्ब-सहरि-हुँडुक-कंसाला।
काहल-तिलिमा सङ्को वंसो र्पणवो य बारसमो॥ सूर्य तूरम् । नान्दी च तत्तूर्य च नान्दीतूर्यम् । पुंसां पौरुषोपेतानां महावीराणां नाट्याय नृत्ताय नान्दीतूर्यमिव । महाभटा हि धनुर्ध्वनिश्रवगैर्नृत्यन्तीव ॥
मित्रे रेवतिमित्रस्य रणायोत्तस्यनुस्तदा ।
गङ्गाद्वारपती गङ्गमहगङ्गामहानुजौ ॥२॥ २. तदा गङ्गमहगङ्गामहानुजौ गङ्गमहाख्यस्तल्लघुभ्राता च मूलराजनृपो रणायोत्तस्थतः। किंभूतौ। गङ्गाद्वारपती गङ्गाया द्वारं यत्र तशा
१बी त्रस्य'. २५ सी नाक'. ३ थी 'हुटक. ४ ए पणमो य वा सम्मे। सी पणेमा य वा सम्मे।. ५डीवो दुवालस, ६ ए सी नादीतू. ७५ सी नादीतू. ८सी नाम.