________________
[है. २ ४ ७४ } चतुर्थः सर्गः।
३५३ हितोस्वामोवौं संहिता जानुकटीभ्यां सह सुसंधानावूरू यस्याः सा च वामोरुश्च चारुसक्थिका च । तथा हे अशफोरु अनिन्द्यसक्थिके हे लमणोरु लक्ष्मीरस्यनयोः "लक्ष्म्या अनः" [७.२. ३२] इत्यनेन लक्ष्मणौ श्रीमन्तावूरू यस्याः । तथा हे सहितोरु सुघटितोरु सुखं यथा स्यादेवमिह प्रदेशे वरोरुनारीश्वश्रूसख्यभ्यर्णगाः प्रशस्योरूणां वनिताश्वश्रूवयस्यानां निकटस्था यूयमानं तिष्ठत। तथा हे युवते तरुणि हे देवदत्त्ये देवदत्तस्य पौत्रि हे वाराह्ये वराहस्य पौत्रि हे वाराहि वराहपुत्रि हे यूनि तरुणि दाक्षि देक्षपौत्रि वसिष्ठस्यापत्यं पौत्रादि स्त्री "ऋपिवृष्णि" [६.१. ६०] इत्यादिनाणि वासिष्ठी कपटोरपत्यं वृद्धं स्त्री कापटवी। द्वन्द्वे तयोः समीपे पर्नु पादरहितेव माध्वं मा तिष्ठत । तर्हि किं कुर्म इत्याहुः । नोस्माकं बाहुविक्रमं पश्यत । तथा हे पौणिक्ये पुणिकस्य पौत्रि “अत इज्” [६.६.३०] एवं हे क्रौड्ये च क्रोडस्य पुनि त्वं चैह्यागच्छार्थाद्रणभुवम् । तथा हे लाड्ये लाडपुत्रि हे सूत्ये प्राप्तयौवने त्रि यी सूतसंबन्धिनि त्रि भोज्ये च भोजवंशजे क्षत्रिये त्वं च तिष्ठात्रैवास्व । तथा हे भोजे भोजाख्ये त्रि मुञ्च त्यज प्रस्तावाद्रणे यियासुं माम् । तथा हे सूते प्रसूते कान्ते हे दैवयज्ञि हे काण्ठेविद्ध्ये देवयज्ञस्य कण्ठेविद्धस्य च पुत्रि पौत्रि वा काण्ठेविद्ध्यनुप्रपन्ने च काण्ठेविद्धीमाश्रिते खि त्वं च व्रज गच्छार्थाद्रणाङ्गणम् । तथा हे सात्यमुनि सत्यमुग्रस्य पुत्रि पौत्रि वा धीरा निर्भया भव । हे दैवयझ्यासखि दैवयझ्याया वयस्ये त्वमतिसात्यमुम्या धैर्यात्सात्यमुग्र्यामतिक्रान्ता सती मास्व मा तिष्ठ धीरत्वाद्रणदर्शनाय प्रचलेत्यर्थः । शौवृक्ष्ये इति शौचेरिति गम्यपरत इत्यपेक्षया "प्रभृत्यन्यार्थ" [२.२.७४.] इत्यादिना पञ्चमी । अत्र च शब्दार्थयोरभेदाच्छोचिवृक्ष्य इति शब्देन वाच्यो योर्थः शुचिवृक्षापत्यत्रीरूप:
१ ए सी लक्षणो'. २ ए सी रोरूना'. ३ ए सी हे वरा'. ४ वी दक्षिपौ. ५ ए सी तयो स. ६ ए सी क्रौढि त्र. ७ ए सी दास्तत्तव. डीदा तत्संब. ८ ए सी यशास. ९ सी शौचरि'.