________________
[है. १.४.५३.] चतुर्थः सर्गः।
३४३ पाणिगृहीतीस्ततर्जुरन्तर्वनीः पतिवनीप्वयोग्यमेके । केपि करात्तीधृताञ्चलास्तु प्लवगीवदृषलीरिव प्रजघ्नुः ॥ ६७ ॥
६७. एके भटा अन्तर्मध्ये गर्भोस्त्यासां ता अन्तर्वनीर्मुर्विणीः पाणिगृहीतीरूढास्ततर्जुनिर्भसयामासुः । कथम् । पतिरस्त्यासांतासु पतिवनीषु जीवत्पतिकाखयोग्यं हे रण्डे किमित्यधुना रोदिषीयादि पतिविनाशसूचकोक्यानुचितं यथा स्यादेवम् । एतदपि महारिष्टम् । तुः पुनरर्थे । केपि भटा: पुनः कराचीरूढा वृषलीरिव दासीरिव प्रजनयुद्धविघ्नभूता इति कोपाचपेटादिना निर्दयमताडयन् । यत: प्लवगीवद्वानरीरिव धृताञ्चला युद्धगमननिषेधायावष्टब्धपटप्रान्ताः । अञ्चलधरणेन स्खलनं भार्याहननं च द्वयमप्यरिष्टम् ॥
शूद्राश्च क्षत्रियाच विभ्युर्यधुंकाः पत्यंशुकेषु यच्च । जयदा क्षणपाक्यथाखुकर्णी गोवाली नष्टाथ शालपर्णी ॥६॥
६८. यद्यस्माद्धेतोयूँकाः पत्यंशुकेष्वभवन् यञ्च यस्माद्धेवोश्च ।जयदेवि सर्वपदेषु योज्यम् । जयदा विजयकारिणी क्षणपाक्यथ तथाखुकर्णी तथा गोवाल्यथ तथा शालपर्णी च नष्टा । एवंनाभ्य ओषध्यो गताखस्माद्धेतोः शूद्राश्च मिश्रजातिखियश्च क्षत्रियाच क्षत्रियजातिस्त्रियश्च विभ्युर्महारिष्टान्यतानीति मनसि चुक्षुभुः॥
पाणिगृहीतीः । करात्तीः । इत्येतौ "पाणिगृहीती" [५२] इति यन्ती निपात्यौ ॥ पतिवत्रीषु । अतर्वनीः । इत्येतौ “पतिवनी [१३] इत्यादिना निपात्यौ ॥
-
१सी भ्युकाः. २ बी शालिप.
१ सीम् । तु पु. २ मी शालिप. ३ ए सी ख्यन्यो नि'. ४ ए सी 'ना मिपा.