________________
[है• २.४.३४.] चतुर्थः सर्गः।
३३५ धूली धूलिः । इत्यत्र "इतोक्त्यर्थात्" [३२] इति वा डीः ॥ अक्त्यर्थादिति किम्।हति । वृष्टया । ज्यानिम् ॥ अन्ये न्वञ्चति-अऋति-अंहति-शकटि-शास्त्रिशारि-तारि-अहि-कपि-मुनि-रात्रि-यष्टिभ्यः कटिश्रोण्यादिप्राण्यङ्गवाचिभ्यः क्तिवर्जितकृदन्तेभ्यश्चेकारान्तेभ्य इच्छन्ति नान्येभ्यस्तन्मते सुगन्ध्येत्यादिषु डीन स्यात् । क्तिमात्रवर्जनाच्च ज्यानिप्रभृतिषु न निषेधः॥ पद्धतीषु पद्धते. । इत्यत्र "पद्धतेः" [३३] इति वा डीः॥
तदेवं षडिधबलमीलनमुक्त्वा ग्राहारेः स्वयं प्रस्थानं वृत्तपञ्चकेनाह। ग्राहरिपुः शक्तिमान्स पदव्या शक्त्या शक्तीभृनिभः प्रतस्थे । पटुभिः पपिपासुभिर्नु वायु खरुभिः पाण्डुभिरश्वधोरणीभिः॥५४॥
५४. स ग्राहरिपुरश्वधोरणीमिः कृत्वा प्रतस्थे रणाय प्राचालीत् । कीहक्सन् । शक्तिमान् । शक्तयः प्रभुमत्रोत्साहपूर्वास्तिस्रः । शेक्तिः सामर्थ्य वा । तद्वान् । तथा पळ्या तीक्ष्णया शत्याखभेदेन कृत्वा शकीभृन्निभः कार्तिकेयतुल्यः । किंभूताभिः । खरुभिः
खरुः स्यादइवहरयोर्दर्पदन्तसितेषु च । इति वचनात्खरुर्दर्पस्तद्युक्तोप्युपचारादुच्यते । ततो दर्पवतीभिरत एव पटुभिर्दक्षाभिरत एव चातिवेगवत्त्वेनोत्प्रेक्ष्यते । वायुं वातं प्रपिपासुमिर्नु वेगावातानुव्रजनेन वातं पातुमिच्छन्तीभिरिव वातवद्वेगेन गच्छन्तीभिरित्यर्थः । तथा पाण्डुभिः श्वेताभिः ॥
शक्ती शक्त्या । इत्यत्र "शक्तेः शस्त्रे" [३५] इति वा डीः ॥ शन इति किम् । शक्तिमान् ॥
१ ए सी क्या सक्ती. २ ए सी वायु ख. १ सी धूलि'. २ बी टि शस्त्रि. सी टि-शाकटि-शा. ३ ए सी गन्धेत्या'. ४ बी सी देव घ. ५ ए बी सी शक्ति सा. ६ वी च्या अमे'. ७ ए खरुः श्वा'. सी डी खरु श्वा', ८ डी द्वातोनु. 5वी तद्दे. १० एसी डीम् । भक्ति.