________________
व्याश्रयमहाकाव्ये
[ मूलराजः]
हारिसमीपं प्राप । कीहक्सती । जानपदा सुराष्ट्रादेशोद्भवां सुरां मयं पात्री पिबन्यत एवं शोण्या रक्तयाक्षिभासा नेत्रज्योतिपा कवरा करा । तथा रणकामुका युद्धेच्छुरत एव रोपशोणा क्रोधादारतात एव च कुशायोमिश्रं काप्टमयं शस्त्रं सह तया वर्तते या सा । एतेन श्रेणिवलागमनोक्तिः । श्रेणिवलं तत्रादिकम् ॥
भाजी । गोणीम् । नागीभिः । स्थलीभिः । कुण्डि । कालीम् । कुशी। फामुकि । अधिकटि । कबरी । इत्यन्न "भाजगोण" [३०] इत्यादिना डीः ॥ अन्यन्न । भाजा । गोणे । नागे । स्थले । कुण्ढे । काले । सकुशा । कामुका । फवरा ॥ कटा । इति स्वयं ज्ञेयम् ॥ जनपदशब्दादपि वृत्ताविच्छत्यन्यः । जानपदी वृत्तिम् । वृत्तेरन्यनें जानपदां सुराम् ॥
शोण्या शोणा । इत्यत्र "न वा शोणादेः" [३३] इति वा डीः ॥ हयखुरहतिजन्मधूलिरुचैरथधूलीनिचिता मदाम्बुवृष्ट्या । ज्यानि गजपद्धतेः सुगन्ध्या परितः पाप समस्तपद्धतीषु ॥५३॥
५३. पडिधेपि ग्राहारिसैन्ये मिलति रथधूलीनिचिता स्यन्दनरेगुभिः सान्द्रीकृतोचैरतिशयिता ह्यखुरहतिजन्मधूलिरश्वशफघातोस्था रेणुः समरतपद्धतीपु सर्वमार्गेपु परितो ज्यानि क्षयं प्राप । कया कृत्वा गजपद्धतेईस्तिपतेः सक्तया सुगन्ध्या नवोद्भदात्सुरभ्या मदाम्वुवृष्ट्या । अम्बुवृष्ट्या हि धूलि: शाम्यति ॥
१ सी निविश न. २ ए सी यानं ग.
१ ए सी पारीस. २ सी व शाप्या. ३ वी ९. ४ ए "त्र जन. ५ सी शोया । . ६ ची मिलिते र. ७सी वोत्यो . ८ ए सी डी
नमो.