________________
१३२
व्याश्रयमहाकाव्ये [मूलराजः] आर्यकृती भेषजीमुमङ्गल्यपरीपापीभागव्य आयुः। संकोचरतः समं समान्या भक्त्या केवलयास्यपीठदेव्यः॥४९॥
४९. समान्या समानीसंज्ञया पीठदेव्या समं सहार्यकृत्यादिनान्यः पीठदेव्यो योगिन्योस्य ग्राहारेः संबन्धिन्या केवलयैकया भक्त्या हेतुना सैकोत्तरत एवंनानोब्धिस्थाद्रिविशेषादायुः । अनेनापि मौलवलागमनोक्तिः । यतो वेलाकूलाधिपतित्वात्तस्य क्रमागतास्ताः सांनिध्यकारिण्यो देव्यः ।।
नीली नीला । प्रबदलूनी बदविलूना । इत्यत्र "कोच्च नाम्नि वा" [२०] इति वा डीः ॥
केवली । मामकीषु । भागधेय्यः । पापी । अपरी । समान्या । आर्यकृती । सुमनली । भेपजी । इत्यत्र "केवल " [२९] इत्यादिना डीः ॥ नानीति किम् । केवलया भक्या ॥ भाजीकाली कुशीरदायां नागीभिः कुम्भस्थलीभिरुच्चाम् । अधिकटिकवरीजुपोध्यरोहन गुणगोणी गजतां निषादिनोपि ५०
५०. अधिकटिकवरीजुषः श्रोणी यावत्प्रलम्बमानवेणीका निषादिनोपि मौलवलसंवन्धिनो हस्त्यारोहाच गजतां गजौघमध्यारोहन् । कीदृशीम् । भाजी पैकशाकस्तद्वत्कालीं कृष्णां तथा कुश्ययोविकारस्तद्वन्निविडास्तीक्ष्णाः प्रलम्बाश्च ये रदा दन्तास्तैरग्यामुत्कृष्टां तथा नागीभिः स्थूलाभिः कुम्भस्थलीभिरुचामुन्नतां तथा गुणानां शौर्यादीनां गोपीमिव गुणगोणी गुणस्थानमित्यर्थः । अस्य च वृत्तस्य पूर्वार्धे नागी १ ए सी °णी जगता.
१एसी ‘ध्यकरि . २ ए सी काना'. ३ ए सी च जगता. ४ बी पकः श. ५ सी गोणी गु. ६बीटी नागीका .सी नागीकाठी कु.