________________
[है० २.४.२७.
चतुर्थः सर्गः।
-
षया द्विपुरुषप्रमाणया कुन्तयष्टया कृत्वा भान् शोभमानः । तथा यथाद्रिनील्यौषधिविशेषेणोपलक्षितः स्यादेवं नीलया नीलवर्णयोचैरतिशयितया पट्या वस्त्रेणाथ तथा नील्या हरितयावन्त्याश्वयोपलक्षितोत एवातिरोहिणीशशत्रु राहुमतिक्रान्तः । कागादित्याह । रेवत्यां रेवत्या चन्द्रयुक्तया युक्ते काले द्वादशे चन्द्र इत्यर्थः । लक्षो हि नाम राशिनाश्विनीजातत्वान्मेपराशिजातो रेवत्यां च चन्द्रो मीनराशौ स्यादनेन चास्यावैश्यंभावी मृत्युः सूचितः । एतेन मित्रवलागमोक्तिः ॥
निकाण्ड्या । इत्यत्र “काण्डात्' [२४] इत्यादिना कीः ॥ प्रमाणादिति किम् । दशकाण्डया ॥ अप्रमाणादपीच्छन्त्यन्ये । नवकाण्ड्या ॥ अक्षेत्र इति किम् । द्विकाण्डाः क्षेत्रभुवः ॥ षट्पुरुषीः । द्विपुरुषया । इत्यत्र “पुरुषाद्वा" [२५] इति वा डीः ।। रेवत्याम् । रोहिणी । इत्यत्र "रेवत" [२६] इत्यादिना डीः॥ नील्यान्त्या । नील्या । इत्यत्र "नीलॉत्" [२७] इत्यादिना हीः ॥ प्रा. प्योपध्योरिति किम् । नीलया पट्या ।।
नीलीनीलाप्रबदलूनीवद्धविलूनामामकीपु जाताः । एयुस्तस्यात्मजाः स्वभूभ्यो ज्ञात्वा समयं केवलीविदोनु ॥४८॥
४८. प्रबद्धा चासौ लूना च प्रवद्धलूनी। बद्धा चासौ विलूना च बद्धविलूना । नील्यादिनामका ग्राहारेर्भार्यास्तासु जातास्तस्य ग्राहारेरात्मजाः पुत्राः केवलीविदो नु केवल्यो ज्ञानशाखाणि तज्ज्ञा इव समय रणकालं ज्ञात्वा स्वभूभ्यः स्वदेशेभ्य एयुः । एतेन मौलवलागमनोक्तिः ।। १ ए सी दो नुः ॥
१ वी सी द्रिनील्यो. २ ए सी वस्य भा'. ३ ए सी डी काण्ढा । ३०. ४ ए वी सी डी त्या । नी. ५ए सी डी लादि. ६ सीमय र.