________________
[है० २.४.१७. चतुर्थः सर्गः ।
३२७ वात एव भीमा नदीः शृणोति मत्स्यग्रहणाभिलाषेण तासु जिगमिषु. त्वाल्लोकादाकर्णयति ।। उन्सिप्नुः सोरिकम्पकारी शैलेय्या भुजया गदां शिलेयीम् । सौपर्णेयीसहोदरौजाः शाक्तीकीः पौंस्त्रीदिदेश सेनाः ॥४३॥
४३. स पाहारिः शाक्तीकी: शक्तिप्रहरणा: पौंस्त्रीः पुंसां पौरुषगु. णोपेतानां नराणामिमाः सेना आदिदेश रणारम्भायाज्ञापयत्। कीदृक् । सुपाः । केचित्त्वेनमजादिषु पठन्ति । तन्मते सुपर्णाया वापत्यं स्त्री सौपर्णेयी सुमतिनानी सगरपनी तस्याः सहोदरो गरुडस्तद्वदोजो बलं यस्य सः । अत एव शिलायास्तुल्या " शिलाया एयच्च "[७.१. ११२] इति चकारादेयमि शैलेयी तया शिलादृढया भुजया कृत्वा गदां मुद्रविशेषमुत्क्षिप्नुरुल्लालयन् । कीदृशीम् । शिलेया शिलाभिस्तुल्याम् । अनयच् । अत एवारिकम्पकारीम् ।। __ प्राहारेरादेशे सेना यथामिलंस्तथादशभिर्वृत्तैराह । सेनान्योस्याज्ञया तदैयुस्त्यक्ता स्त्रैणीराक्षिकीः सलीलाः । औशनसाधाथ पाणिनीयाः सहसा चारुखलित्रया वधूटीः॥४४॥
४४. तदास्य पाहारेरौशया सेनान्यो दण्डनायकाः सेनायुक्ता नृपा वैयुाहारिसमीप आगताः । किं कृत्वा । वधूटीनवोढाः पत्नीराक्षिकीर:र्दीव्यन्तीः सतीः सहसाकस्मात्त्यक्त्वा । कीदृशीः । चारु मनोझं वलित्रयमुदरमध्यवर्ति रेखात्रयमुपलक्षणत्वाच्छेषाङ्गोपाङ्गानि च यासां ता: । अथ तथा पाणिनीयाः पाणिनिप्रोकमहाशब्दानुशासनज्ञाः । एनेन विद्वत्तोक्तिः । तथौशनसाश्च शुक्रमोक्तनातिशास्त्रज्ञाश्च । एतेन
१बी °सा पुरु. २ बी यच । म. ३ वी राशाया. ४ सी टीवो.