________________
[है० २.४.१४.] चतुर्थः सर्गः।
३२५ रिर्युधे युद्धार्थ सीमानं स्वदेशमर्यादाभूमिमेत्वागच्छतु । कि कृत्वा । पृतनाश्चमूटुंह्य । किभूताः । अधिका राजानो यस्यां साधिराज्ञी नाम ग्रामो बहूनि सामानि यस्यां सा बहुसान्नी नाम पुरी । द्वन्द्वे तयोरधीश्वराम्तदाद्यैर्नृपैः कृत्वा । शतं राजानो यासु सहस्रं राजानो यासु वा ताः । अत एवातिसाम्नः सामोपायमतिक्रान्ता युद्धायैव सदोद्यता इत्यर्थः । अत एव च कृतवर्मण: संनद्धाः ।। इति स विसृष्टो बनान्तसीमावतिपर्वासु कोन्वजाः शताज्याम् । द्विपदस्त्रिपदी ऋचो महपीन्पठतो गोपजुषो जगाम पश्यन् ॥४१॥
४१. इत्येवंप्रकारेण विसृष्टो राज्ञा मुत्कलितः स दूतो जगाम प्राहारि प्राप । कीहक्सन् । अतिपर्वासु मूलराजागमनानन्देनातिशयितोत्सवासु वनान्तसीमासु काननपर्यन्तसीमभूमिषु वर्तमानान्महर्षीन्मारणेच्छया क्रूरं पश्यन् । वृको नु यथारण्यश्वा शताज्यां शतस्याजानां समाहारे वर्तमाना अजाश्छागीारणेच्छया पश्यति । कीदृशान् । गोपजुषो गोकुलस्थांस्तथा द्वौ पादौ यासां ता द्विपद एवं त्रिपदाच ऋचो मन्त्रविशेषान्पठतः ।। सहस्रराज्ञीः शतराज्ञः । इत्यत्र "अनो वा" [१] इति वा डीः॥ अधिराज्ञी । बहुसाम्नी । इत्यत्र "नानि" [१२] इति दीः ॥ कृतवर्मणः । इत्यत्र "नोपान्त्यवतः" [१३] इति न डीः ॥ सीमानम् । इत्यत्र "मनः" [१४] इति न ढीः ॥ अनिन्नस्सन्ग्रहणान्यर्थवतानर्थकेन च तदन्तविधि प्रयोजयन्ति । तेन सामातिकान्ता अतिसाम्न हत्यादावपि डीप्रतिषेधः स्यात् ॥ १ ए सी डी दास्त्रो.
१ ए सी पी कृ. २ ए सी हश्र रा°, ३ ए सी इर्थ... ४ ए सी डीश्च रुचो'. ५ ए सी हरा'. ६ डी अनिनस्म'.