________________
[है० २.३.७८.] तृतीयः सर्गः । पश्चाद्गमिष्यसि । अत्रैव त्वं विनयसीत्यर्थः । तस्मादुर्वराया अविनाशनेन मैत्री कुर्वित्यर्थः ॥
अथैवं भक्तिशक्युपदर्शनेन मैश्यां विधेयतयोक्तायामपि राशि किमप्यवदत्यवाच्यं छलं संभाव्य पृच्छंस्तदुचितदण्डोत्योत्तरयंश्वाह ।
अथ दुर्निगदं छलं त्वमन्तर्घ्यदधास्तत्पणिजल्पितेन किं नः । __मा प्रनिजल्पाधुना कृतान्तः प्रनिकुर्वन्प्रनिखेलतु प्रनिद्विट् ॥१८॥
१८. अथेति प्रश्ने। दुर्निगदं पापत्वाइःखेन वाच्यं छलमतिप्रच्छन्नास्कन्दनादिकूटप्रयोगं त्वमन्तश्चित्ते न्यदधा निहितवांस्तत्तदा नोस्माकं प्रणिजल्पितेन पूर्वोक्तेन किम् । निरर्थकत्वान्न किंचिदित्यर्थः । तथा मा प्रनिजल्प त्वमपि मा वादीस्त्वत्प्रतिवचनेनापि मृतमित्यर्थः । केवलं हे प्रनिद्विट् प्रकृष्टनिश्चितशत्रोधुना प्रनिकुर्वन् रणेन मृत्युरूपं शाठ्यं कुर्वन्कृतान्तो यमः प्रनिखेलतु प्रक्रीडत्वर्थात्त्वया सह । आशिषि पञ्चमी। त्वं प्राहारिणा व्यापाद्यस्वेत्यर्थः ॥
तदेवं दण्डमुक्त्वा राज्ञश्छलं ग्राहारे पयितुं स्वयानमाह । प्रनिचिखनिषता त्वयास्मदाख्यां निचक्रे प्रणिपापचत्मकोपम् । तदलं प्रनिपापचन्मनास्त्वमणिदिष्टं प्रनिदेष्टुमेष यामि ॥१९॥
१९. यस्मादस्मदाख्यामस्मत्कीति प्रनिचिखनिषतवमास्कन्दनेन खनितुमिच्छता त्वया प्रणिपापचदत्यर्थसंतापकः प्रकोपः प्रवलकोधो यत्र तद्यथा स्यादेवं प्रैनिचके पराभूतम् । अस्माकं पराभवः कृत
-
१ ए सी डी प्रतिखे'. २ डी प्रतिच'. ३ ए सी डी प्रतिदि. ४ सी डी प्रतिदे'.
१ सी र्शमेन. २ बी परूपत्वा. ३ सी प्रतिदि. ४बी प्रतिखे. ५ ए सी डी शस्थल'. ६ ए सी नेख. ७डी प्रतिच'.