________________
है० २.३.४२.] तृतीयः सर्गः।
२८५ परानन्यानपि करम्भमवाषिष्वणभोजयत् । एतेनास्यात्मभरित्वमपास्तम् ॥
योद्रो व्यषिष्वणजायां वयं चैलामवाष्वणन् । सोवस्खनन्करी बद्धो व्यष्वणच्छष्पपूलिकाः ॥ १३५ ॥ १३५. यः करी अद्रौ विन्ध्यशैले जायां करेणुकामेलां सुगन्धितरुविशेष व्यषिष्वणगोजितवान् । स्वयं च य एलामवावणदभुङ्ग । स्वभार्यान्वितो य एलां भुक्तवानित्यर्थः । एतेनास्यातिसुखितत्वमुक्तम् । स करी बद्ध आलानस्तम्भे निगडितोवस्वनन्नववद्धत्वेन बन्धासहत्वादाक्रन्दन्सन् शष्पपूलिका नवतृणपूलान् व्यध्वणदभुत । एतेन सुखदुःखावस्थे महतामपि भवत इत्युक्तम् ।।
उष्ट्रान्विखनतो भाराद्विषण्णानौष्ट्रिको जनः ।
न्यषीपदनिषिषत्सुनिषसाद न तु स्वयम् ॥ १३६ ॥, १३६. औष्ट्रिको जन उष्ट्रान्यषीषददुपावेशयत् । किंभूतान्सतः । भाराद्धेतोर्विषण्णान् श्रान्तानत एव निषिषत्सूनुपवेष्टुमिच्छून् । तथा विखनत आरटतः । न तु स्वयं विषसादोष्ट्रसंवन्धिभिर्भारावतारणचार्यानयनादिभिरनेकव्यापारातत्वान्न पुनरात्मना भूम्यामुपाविशन् । एतेनौष्ट्रिकाणामुष्ट्रेष्वतिहितत्वोक्तिः ॥
न्यपीदत्मतिसन्नोर्भोम्बामपि प्रत्यसीपदं ।
साप्यपतिसिषत्सुं तत्पितरं प्रत्यसीसदत् ॥ १३७ ।। १३७. प्रतिसन्नः श्रान्तोर्मों वालको न्यषीददुपाविशत् । अम्बा' घी दन् । १सी मुक्त । स्व.
-
-