________________
3
[१०२.३.४० ] तृतीयः सर्गः । तथा ऋयार्थिनः कायकास्तत्र तेष्वापणेष्वभिषपञ्जः क्रयार्थ संयुयुजुः । एतेन सैन्येपि नगर इव सॉपि क्रयविक्रयव्यवहारोभूदित्युक्तम् ।।
स्था । सप्रतिष्टैः । अधितष्टे । प्रत्यष्टायि ॥ सेनि । अभिषेणयन्निः। अनमिपिपेणयिषु । अन्यपेणयत् । अभ्यपिणयिपत् ॥ सेध । निषिद्ध ! निपिपेध । न्यपेधन् । न्यपिपधिपन् । सिंच । अभिषिक्त । निपिपिचुः । न्यपिञ्चन् । अपिपिक्षन् ॥ सञ् । अभिपतनात् । अभिषपक्षुः । अभ्यपजन् । अभ्यपिपड्कन् । अत्र "स्थासेना" [४०] इत्यादिना पः ॥ ण्यन्तानामपि भवति । परिष्टाप्य ।। उपसर्गादित्येव । सौस्थ्यम् । पूजार्थत्वान्न सुरुपसर्गः ॥ तथा येन धातुना युक्ताः मादयस्त मेव प्रत्युपसर्गसंज्ञा इति अनतिस्थितय इत्यत्र पत्वं न ।।
विष्टब्धदंष्ट्रान्निस्तब्धा व्यतस्तम्भन् श्वभिः किरीन् ।
व्यष्टम्भन्केप्यथ प्रासवितष्टम्भुः शरैः परं ।। १३१ ॥ १३१. निस्तब्धा ऊर्जस्वला: केचिद्भटा विष्टन्धदंष्ट्रान् दृढदाढाकिरीन् शूकरान् श्वभिः कर्तृभियंतस्तम्भन्स्तम्भयामासुः । अथ श्वभिः स्तम्भनानन्तरं केपि भटाः प्रासैः कुन्तैर्व्यष्टम्भन् कोलन्ति स्म । परेन्ये च भटाः शरैर्वितष्टम्भुः ॥
प्रतिस्तब्धा अवाष्टमन्नेकेवष्टब्धशाखिनः ।
अवष्टम्भमवष्टभ्यावतष्टम्भुस्तटीः परे ।। १३२ ॥ १३२. एके भटा अवष्टव्धशाखिनो नद्याः समीपवर्तितरूनवा. नमाश्रिताः । यतः प्रतिस्तव्धा वलिष्ठाः । बलिष्ठत्वेनान्यान् जना
१ सीटब्ध.
१ बी थानतिस्थितः क्र. २ सी यार्थे म'. ३ वी सिच्. सी सिब, ४ डी षिकम् । नि. ५ डीन् । स. ६ एपिड्डन् ।. ७ वी सी सन । म