________________
[है० २.३.३०.] तृतीयः सर्गः।
२७५ अत एव स्थपुटेष्वपि विषमप्रदेशेष्वप्यनि:षेधैरसंवलितगतिभिः । सुषंधित्वेनास्खलितगतित्वेन चालक्ष्यसंधिवादेककाष्ठमया इव रथा ज्ञाता इत्यर्थः ॥
निःषामाणो महामात्रैर्दुःषामाणः सुषामभिः ।
अभीरुष्ठानसैन्यस्य प्रष्ठतां निन्थिरे गजाः ॥ ११५ ॥ ११५. सानः सामवेदान्निष्क्रान्ता निःपामाणः । गजा हि सामवेदात्प्रसूता इति गजलक्ष्मशास्त्रम् । गजाः सुषामभिः शोभन: सामवाक्यैः कृत्वा शोभनसामोपायान्वितैर्वा महामात्रैर्हस्तिपकैः कर्तृभिनिन्थिरे नीताः । काम् । अभीरूणां निर्भीकाणां स्थानं निवासो यसैन्यं तस्ये प्रष्ठतामप्रेसरत्वम् । यतो दुष्टमरुचितं साम सांत्वनमीप येषां तेतिमदोत्कटत्वेनात्यसहना इत्यर्थः । येपि गजा इव गजा बलिष्ठा दर्पिष्ठाश्च महायोधा युद्धप्रियत्वेन दुःषामाणो रुचितसामोपायों अत एव निःषामाणो मुक्तसामोपायाः स्युस्ते सुषामभिर्महामात्रैः प्रधानैयुद्धार्थमभीरुष्ठानसैन्यस्य प्रष्ठतां स्वर्णपट्टबन्धेन मुख्यतां नीयन्त इत्युक्तिः॥
गोष्टेषु । अनम्बाहाः । “ल्यापो बहुलं नाम्नि" [२. ४. ९९ ] इति हस्दस्वेन आम्बठ्य । श्लिष्टनिर्देशादुभाभ्यामपि स्यात् । आम्बष्ठता । सव्यष्ठ । अपष्ठ । दिष्ट । त्रिष्टेषु । भूमिष्ठ । अनिष्ठ । शेकुष्ठ । शङ्कुष्ठ । कुष्ठ । अङ्गुष्टम् । माञ्जिष्ठ । पुजिहाः । बहि। परमेह । दिविष्ठ । इत्यत्र "गोवाम्ब० [३०] हत्यादिना पः॥
१ सी णमु.
१बी रस्खलि. २वी स्य पृष्टता. ३ वी याsत. ४ वी वे आ. ५ वी । मा. ६ वी 1ि . ७बी गोम्नेत्या.