________________
[है० २.३.२९.] तृतीयः सर्गः ।
२७३ द्विष्ठत्रिष्ठेष्वपुर्गोष्टेष्वाम्वष्ट्याम्बष्ठताजुषः ।
पयोशङ्कुष्ठकाङ्गुष्ठं भूमिष्ठापष्टपत्तयः ॥१११ ।। १११. भूमौ तिष्ठन्ति भूमिष्ठा अप मार्ग परिहत्य तिष्ठन्यपष्ठाश्च ये पत्तयस्ते गोप्टेषु गोकुलेषु पयो दुग्धमपुः पिबन्ति स्म । कथम् । शको शल्याने तिष्टन्ति शङ्खष्ठा अज्ञाताः शकुष्ठाः शङ्कुष्ठका न तथाशङ्कुष्ठकाः पयःपानव्यापृतत्वेनाप्रहरणा अङ्गाववयवे तिष्ठन्त्यङ्गुष्ठा अङ्गुल्यो यत्र पाने तत् । किभूतेषु गोप्टेषु । द्विष्ठत्रिष्ठेषु द्वयोः स्थानयोत्रिषु वा स्थानेषु तिष्ठत्सु । किंभूताः पत्तयः । अम्बायां मातरि तिष्ठन्ति "व्यापो बहुलं नाम्नि" [२४.९९] इति हस्वे अम्बष्ठो मातृमुखः । तस्य भावः व्यणि आम्घष्ठ्यं तस्याम्बष्ठता। अम्बोपह्नवकर्ता तस्यायं कार्यभूतः अणि आम्बोपह्नवरूपो धर्मस्तत्र तिष्ठति "स्थाप०" [५. १. १४१] इत्यादिना के आम्वष्ठस्तस्य भावोपह्नवस्तां जुषन्ते सेवन्ते ये ते धनुर्विद्यादिकलाकुशला इत्यर्थः ।।
अनम्बाष्ठा असन्यष्ठकुन्तशेकुष्ठपाणयः। परमेष्ठदिविष्ठाजीन्पुञ्जिष्ठाः पथ्यकीर्तयन् ॥ ११२ ॥ ११२. अनम्बाष्ठा अमातृमुखाः शस्त्रविद्यानिपुणा असव्यष्ठो दक्षिणपार्श्वस्थ: कुन्तः प्रासो येषां तेसव्यष्ठकुन्ताः शेकुः पक्षिविशेषस्तत्प्रकृतिध्वजोप्यभेदात् शेकुः । “न नृपूजार्थ" [७.१.१०८] इत्यादिना काभावः । तत्रस्थः पाणिर्येषां ते शेकुष्टपाणयः । वामपादमोचकमध्यस्थान् महाभटत्वसूचकान् शेकादिजन्तूपलक्षितान्ध्वजान्वामहस्तेनावष्टनन्त इत्यर्थः । विशेषणकर्मधारयेसव्यष्ठकुन्तशेकुष्ठपाणयोश्वारोहसुभटाः पथि पुजिप्ठाः समुदायस्थाः सन्तोकीर्तयन्नवर्णयन् ।
३ ए सीडी स्थापत्या ४ सी
' यी झावय° २ बी पु च स्था स्थकु° ५ सी दमौत्रक