________________
२६६ व्याश्रयमहाकाव्ये
मूलराजः] धनुष्फलकयोग्याभिस्तत्रारुष्पाणयो वभुः ।
सर्पिप्पाः सुभटा वहिप्खननैाह्मणा इव ॥ ९८ ॥ ९८. सर्पिप्पा घृतपायिनोतिवलिष्ठा इत्यर्थः । सुभटा विशेषतो दानसन्मानपात्रत्वाद्वभुः । यतो धनुप्फलकयोश्वापस्फरयोर्या योग्या निरन्तराभ्यासास्ताभिः कृत्वारुणं पाणी येषां ते धनुर्विद्यायां खड्गविद्यायां च कुशला इत्यर्थः । यथा सर्पिष्पा जातिस्वभावेनात्यन्तं घृतप्रियत्वाद् घृतपायिनो ब्राह्मणा भान्ति । यतो वहिप्खननैः पवित्रिकाधर्थ दर्भच्छेदनैररुप्पाणयो दर्भाणां तीक्ष्णाग्रत्वाद्वणितहस्ताः क्रियानैष्टिका इत्यर्थः ।।
नृपो ज्योतिष्लम छयद्भिश्छन्नश्छत्रैश्छदिष्फलैः । भ्रातुप्पुत्रं दंढक्कस्य कस्कोसेविष्ट नानुयान् ॥ ९९ ॥
९९. कस्को नृपोनुयाननुव्रजन्सन् देंढकस्य देढकाल्यपितृव्यस्य भ्रातुप्पुत्रं भ्रातृ मूलराजं नासेविष्ट । कीदृक् । छत्रैश्छन्नः सर्वतोप्यावृतो महद्धिक इत्यर्थः । कीदृशैः । छदिः पटलं तद्ववनतप्रान्ततया सर्वतश्छायाकारितया च फलन्ति संपद्यन्ते यानि तैश्छदिष्फलैरत एवं ज्योतिप्लमं सूर्यातपखेदं छयद्भिरपनयद्भिः । सर्वोपि नृपवर्गोमुं महाभजदित्यर्थः ॥ राजिवीजढकालयो भ्रातर आदिपुरुषाः । राजेरपत्यं मूलराजो वीजढकयोस्तु भ्रातुष्पुत्रः ।।
१ वी दिपलः २ वी दट की.
पीपस्फुर'. २ सी दन. ३ ए सी सी यान् न. ४ थी ददक. ५ बी दटका. ६ सी दिप्पलै'. ७ थी दढका. ८ बी दटा.