________________
२६० ब्याश्रयमहाकाव्ये
[मूलराजः] स्थितं पादं तिरः कृत्वा तिरस्कृतगिरि गजम् ।
तिरस्कृतारिः सोध्यास्त तिरस्कृत्वा रविं त्विषा ॥८६॥ ८६. तिर:कृता अन्तर्हिता जिता अरयो येन से तथा स मूलराजस्त्विपा तेजसा कृत्वा रवि तिरस्कृत्वान्तर्धाय विजित्यातितेजस्वीभूयेत्यर्थः । गजमध्यास्त । कीदृशम् । तिरस्कृतगिरिमौनत्येन पराभूता. दिम् । यदि शैलादप्युन्नतो गजस्तर्हि कथं तमध्यास्तेत्याह । यतः पादं तिरःकृत्वा तिरधीनं विधायाधोवनम्येत्यर्थः । स्थितं निश्चलीभूतम् । गजो हि पाश्चात्ययोः पादयोर्मध्ये येन केनाप्यारुह्यते । तमसावधोवनमयति । तिरस्कृत्वा रवि त्विषा तिरस्कृतगिरि गजं सोध्यास्तेत्यनेन यथा रविगिरिमुदयाचलमारोहति तथायं गजमिति व्यज्यते ॥
तिरस्कृत तिरःकृत । इत्यन्न "तिरसो वा" [२] इति वा सः ॥ गतेरिति किम् । तिरः कृत्वा ॥ अगवेरप्यन्त विच्छत्यन्यः । विरस्कृत्वा ॥
पुंस्फाल्गुनः स पुंस्पाता मत्तपुंस्करिणस्तदा । शिरस्पदमलंचक्रे पुस्खगिभिरघस्पदम् ।। ८७ ॥ ८७. स मूलराजस्तदा यात्राकाले मत्तो मदोत्कटः पुमान्पौरुषो. पेतश्च यः करी तस्य शिरस्पदं कुम्भस्थलस्थानमलंचके । कीदृक् । पुस्सु पौरुपोपेतेपु फाल्गुन इवार्जुन इव पुंस्फाल्गुनोत एव पुंस्पाता पुरुपाणां रक्षकः । तथा पुंस्खङ्गिभिः पौरुषोपेतखगधरैश्वाधस्पदं हस्तिनार्धस्थानमलंचके । करीन्द्रो हि राज्ञाध्यासित. परप्रवेशनिवारणाय खनिभिरधः परिचार्यत इति स्थितिः । १ सी रचि.
१ सी स मू. २ ए यो पा. ३ ए सी येना के ४ ए सी प्रकृत्वा डी र: कृस्वा. ५ डी पुस्पा'. ६ वी ध.स्था. ७ थी रिवार्य.