________________
२५८
व्याश्रयमहाकाव्ये
[ मूलराजः]
रभद्रपदाभिर्वा चन्द्रयुक्ताभिर्युक्ते काले याम्यां दिशं दक्षिणां यान्तु । म्रियन्तामित्यर्थः । प्रोष्ठपदासु हि दक्षिणदिशि याने पुनरागमनं न स्यान् । यदुक्तम् ॥
धनिष्ठारेवतीमध्ये चन्द्रे चरति यो व्रजेत् ।
दक्षिणस्यां कदाप्यस्य पुनरागमनं न हि ॥ ततश्च जय त्वं तथा यूयमेधध्वं लक्ष्म्या त्वं वर्धस्वेति ।।
युवामच्यौं गृहा लक्ष्म्या यूयमस्य भुजाविति । कल्याणतिलकाकृष्टा दारा जगुरिवालिनः ॥ ८३॥ ८३. अस्य राज्ञो भुजौ कल्याणहेतुत्वात्कल्याणं कल्याणाय वा पुरोधसा कृतं यत्तिलकं तेनाकृष्टा: सौरभेण दूरादानीता अलिनो भृगस्य दाग भृङ्गी जगुरिवं गायन्ति स्मेव । कथमित्याह । हे भुजौ यूयं युवां लक्ष्म्या विजयादिश्रियो गृहा आश्रयावत एव युवामच्यौँ स्थ इति । भुजयोर्गानाशङ्का च तयोरेव भविष्यज्जयहेतुत्वेन यात्रारम्भकाले गानाईत्वात् । या अपि दारा आकृष्टितिलकाकृष्टा भवन्ति तास्तस्याक्रप्टुर्गानादिकं कुर्वन्तीत्युक्तिः ॥
गोदौ ग्रामं खलतिकं वनानि देशमश्मकान् । भोक्तारोन्येपि भूपास्तं नमस्कृत्याग्रतोभवन् ॥ ८४ ॥ ८४. स्पष्टः ॥
१ए लक्ष्मा यू. २ बी मस्मका'. ३ सी डी ।। ८४ ॥ पुर.
१ एफ 'मिषु'. २ ए दिशि द. ३ ए लक्ष्या त्व. ४ सी डी ल्याण क. ५ एफ भृगयो ज.६ सी व कडी व रमे. ७ सी लक्ष्मा वि. ८ सीडी "त् । यथा अ.