________________
-
है० २.२.१२१.] तृतीयः सर्गः।
२५७ वेश्यहं तयं ब्रूमः पार्थो यः फल्गुनीप्वभूत् ।
स त्वं जयेति वक्तास्य पुरोधास्तिलकं व्यधात् ॥ ८॥ ८०. पुरोधा अस्य राज्ञो यात्रोचितं तिलकं व्यधात् । कीडक्सन् । वक्ता वदन् । किमित्याह । तदहं वेनि जाने तथा तद्वयं मस्तचाहं सर्वत्र कीर्तयामि । यत्किम् । यः पार्थः फाल्गुनोर्जुनः फल्गुनीपु फल्गुनीभिश्चन्द्रयुक्ताभिर्युक्ते कालेभूजातः स पार्थस्त्वं भवानेव । तत्पराक्रमादिगुणोपेतत्वात् । तस्माजय शत्रुपराभवेनोत्कृष्टो भव । अर्जुनो हि शत्रुजयेनोत्कृष्टोभूदिति ।।
धूयमाने अलक्ष्येतां राजानमनु चामरे । शशाङ्कमनु फल्गुन्यौं किं नु पोष्ठपदे नु किम् ।। ८१॥ ८१. राजानं मूलराजमनुलक्ष्यीकृत्य धूयमाने वीजनायें चल्यमाने चामरे अलक्ष्येतां लोकेरुत्प्रेक्षिते । कथमित्याह । शशाङ्कं चन्द्रमनुले. स्यीकृत्य किं नु फल्गुन्यौ किं नु किं वा प्रोष्ठपदे । धूयमानचामरद्वयमध्यस्थो राजा पूर्वफल्गुन्योः पूर्वभद्रपदयोस्तारिफयोर्मध्यस्थश्चन्द्र इव लोकैीत इत्यर्थः ॥
यान्तु याम्यां दिशं प्रोष्ठपदामु तव शत्रवः ।
जय त्वं यूयमेघध्वमिति ज्योतिर्विदोवदन् ।। ८२ ।। ८२. ज्योतिर्विदोवदन्नात्मानुरूपा आशिषो ददुः । यथा हे राजस्तव शत्रवो ग्राहरिप्वादयः प्रोष्ठपदासु प्रोष्ठपदाभिः पूर्वभद्रपदाभिरुत्त
१ए दिशि प्रो.
१ एफ नीभि. २ए °भियुक्त. ३ सी य वल्य. डी य चाल्यौं. ४ ए रक्षी'. ५. सीडीयोम'. ६ सी डी लोके शा. ७ सी तिवदो . ८ वी दादिमि.
३३