________________
२५६
व्याश्रयमहाकाव्ये
[मूलराजः] दूरं राझोपठन् सूता विप्रः सर्वोन्तिकेन तु ।
अन्तिकाद्गुरुंराशास्त गायनाश्वान्तिकं जगुः ॥ ७८ ॥ . ७८. राज्ञो नृपस्य नृपाद्वा दूरं सूता भटा अपठेन् । विप्रस्तु ब्राह्मणजातिः पुनः सर्वोपि राहोन्तिके वेदमपठत् । गुरुः पुरोहितजातिः सर्वोपि राझोन्तिकात्समीप आशास्ताशिर्ष दत्तवान् । कृत्यविधिमकथयद्वा । गायनाश्च राझोन्तिकं निकटे जगुः ॥
यो हेतुः । य हेतुम् । येन हेतुना । यस्सै अर्थाय । यतो हेतोः । यस्य हेतोः । तत्र हेतौ । इत्यत्र “सर्वादेः सर्वाः" [११९] इति सर्वा विभक्तयः॥
दूरेण राज्ञ । दूराच्छ्रेयसाम् । दूरे लोकस्य । दूरं राज्ञः ॥ अन्तिकार्थ । राज्ञोन्तिकेन । राज्ञोन्तिकात् । लोकस्यान्तिके । राज्ञोन्तिकम् । इत्यत्र "असस्वारा" [१२०] इत्यादिना टा-डलि-डि-अम्प्रत्ययाः ॥ ___ विप्रः सर्वः सूताः । सर्वो गुरुः गायनाः । इत्यत्र "जाति" [१२१] इत्यादिनकोर्थो बहुवद्वा॥
स्थास्यावः सुखमद्यावां भास्यामोद्य वयं श्रिया । इति तूर्यप्रतिरवैल्पतः स्मेव रोदसी ॥ ७९ ॥ ७९. तूर्यप्रतिरवैर्यात्रामाङ्गलिक्यविधापनाय सिहासनमध्यासीने राज्ञि विशेषतो वाद्यमानानी नान्दीतूर्याणां व्योमादौ प्रतिशब्दितैः कृत्वा रोदसी जल्पतः स्मेव । किमित्याह । अद्य संप्रत्यस्मदुपप्लाविदैत्यानामुच्छेत्स्यमानत्वादावां सुखं स्थास्यावोत एवाद्य वयमावां श्रिया भास्यामः ॥ १ सी ताशा.
१ सी डी °ठत् । वि. २ वी एफ न्तिके नि'. ३ सी डी तो. । त. ४ एफ "न्तिके । ६. ५ एफू सत्त्वेत्या . ६ ए 'ना दीतू. ७ ए सीव ज ८५बीसीसीएफ °माणला.