________________
२३४
व्याश्रयमहाकाव्ये
[मूलराजः]
३७. प्रासादापाद्देवगृहशिखरमारुह्य केकी मयूरो ननर्त । किं कृत्वा । उपाध्यायाधीत्येव नियमपूर्व नृत्तविद्यां गृहीत्वेव । वाथ वा नटस्य श्रुत्वेव । इवोत्रापि योज्यः । द्रव्यादिदानेन नृत्तविद्यामाकण्येव । यथोपाध्यायान्नियमपूर्वकं नटाद्वा द्रव्यादिदानेनातनृत्तविद्यो नृत्तज्ञत्वानिपुणं नृत्यति तथा जातिखभावेन केकी चतुरं ननतेत्यर्थः । अत एवैनं केकिनं पौर्य आसनादासन उपविश्य प्रेक्षन्त कौतुकात्प्रकर्षेणापश्यन् । शरद्यपि मयूरा मत्ताः सन्तो जातिस्वभावेन प्रासाद्युञ्चस्थानमारुह्य नृत्यन्ति । यदुक्तम् ।
प्रोन्मादयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफान् ।
शरत्समभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि ।। उपाध्यायादधीत्य । इत्यत्र "आख्यातरि" [३] इत्यादिना पसमी ॥ मा. ख्यातरीति किम् । नटस्य श्रुत्वा ।। प्रासादाप्रामनर्त । आसनात्मक्षन्त । इत्यत्र “गम्ययपः" [४] इत्यादिना
पसमी॥
वर्षात्ययात्प्रभृत्यन्जोद्गमादारभ्य चावभौ ।
अन्यो वीणाकणागिन्नो वेणुनादादलिखनः॥ ३८ ॥ ३८. वर्षात्ययाद्वर्षाकालातिकमात्प्रभृत्यम्जोगमात्कमलवनोदाँदा. रभ्य चालिस्खन आवभौ । यतो वीणाकणादन्योन्यादृशोतिमधुर श्त्यर्थः । तथा वेणुनादाद्भिन्नः । शरदि हि पनखण्डविकाशे मधुपानोन्मत्तानां भृङ्गाणां ध्वनिरतिमधुरः स्यात् ।।
१ सीडी "तदि. २ ए नृतति. ३ ए प्रेक्ष्य का . ४ एफ दायाच. ५५ पी सी एफू कुरुर. ६ वी काश्य प. ७ सीडी दार'. ८ सी डी दिप