________________
[है• २.२.६५] तृतीयः सर्गः।
२२९ न स्व शुनेमन्यन्त न स्वं वुसममन्यन्त । इत्यत्र "मन्यस्य" [६४] इत्यादिना वा चतुर्थी ॥ अनावादिभ्य इति किम् । न वृपं नावमन्नं भुकं शूगालं काकं वा मनिरे ॥ कुत्स्यतेनेनेति करणाश्रयणं किम् । न स्वं शुने मेनिरे इत्यत्र स्वशब्दाम स्यात् ॥ अतिग्रहणं किम् । महिपं तृणं मेनिरे । अत्र नन्प्रयोगाभावे साम्यमानं प्रतीयते न त्वतिकुरसी ॥ कुत्सामाग्रेपीच्छन्त्येके। महिपंशुने मेनिरे ॥ न स्वं तृणस्य मन्तेति कृयोगे परत्वास्पष्टी । चतुर्थ्यपीति कश्चित् । न स्वं वुसाय मन्ता । न स्वं तृणस्य मन्ता ॥
-
. पृष्यै हितः घोहितः । पृथ्व्यै सुख घोः सुखः । इत्यत्र "हितसुखाभ्याम्" ६५] इति वा चतुर्थी ॥
शं पथ्यं भद्रमायुप्यं स्तारक्षेमोर्थश्च सिध्यतु ।
राज्ञः प्रजाभ्य इत्यूचेगस्तिस्यन्धनस्वनैः ॥ ३१॥ ३१. अगस्तिरगस्त्यषिरुद्यन्सन्धनस्वनैर्मेघगर्जितैः कृत्वोच इव । इवोत्रावसीयते । किमित्याह । राज्ञः प्रजाभ्यश्च शं सुखं पथ्यं हितं भद्रं धनधान्यादिसंपल्लाभ आयुः प्रयोजनमस्य "स्वर्गस्वस्ति" [६.४.१२२] इत्यादिना थे आयुष्यमायुर्वृद्धिहेतुर्वस्तु क्षमो विपदभावश्च स्तादर्थश्च सिध्यतु कार्य निष्पद्यतां चेति । शरदि ह्यगतिरुदेति घनर्जितानि च स्युरियेवमुत्प्रेक्षा । मुनिर्खास्तपोज्ञानादिविशेषेणोदीयमानो राजादिसमीपं गच्छन् धनखनैः सान्द्रध्वानः कृत्वा राज्ञः प्रजाभ्यश्च शमित्याद्याशीर्वादं वक्ति ।।
१ एफ् सामः . २ एफ तः पृ. ३ सी स्त्य ऋषिरु. ४ एफ क्षेम वि. ५ सी प्रेक्ष्य मु. डी प्रेक्ष्यते मु. ६५ °वाने क.