________________
[मूलराजः]
व्याश्रयमहाकाव्ये
२२८
रत्नादिभ्योपि निकृष्टमज्ञासिषुः । महिषं तु वृषादलिष्ठत्वेन शुने तृणं वा मेनिरे । यतः पयःपानोन्मंदा: क्षीरपाणोन्मत्ताः ॥
न तृणस्य बुसाय स्वं मन्तेवाशुष्यदम्बुदः । सुखो हितोपि पृथ्व्यै चोर्यदमीणान्न चातकम् ॥ ३० ॥ ३०. तृणबुससकाशादपि स्वमकिंचित्करं मन्यमान इवाम्बुदोशुष्यनिर्जलोभूत् । यद्यस्माद्धेतोरम्बुदश्चातकं नापीणान्न तृप्तीचके । कीहक् । पृथ्व्यै सस्याद्युत्पत्तिहेतुत्वाधोः स्वर्गस्य चानेकसस्यौषध्यादियज्ञोपकरणोत्पत्तिहेतुत्वात्सुखोपि । अपिरत्रापि योज्यः । सुखकार्यपि हिनोप्यनुकूलोपि च । योप्यम्बुदै उन्नतो महापुरुषः स पृथ्व्याः वर्गस्य च परोपकारित्वातिधार्मिकत्वादिभिर्गुणैः सुखोपि हितोपि च सन् यदा चतते याचते णके चातकं याचकं केनाप्यसामर्थेन न प्रीणाति तदा तृणबुसाभ्यामप्यात्मानमकिंचित्करं मन्यमानः सञ् शुष्यति खिद्यत इत्युक्तिः ॥
पाकाय प्रयताः । इत्यत्र "मोर्थे" [१] इत्यादिना चतुर्थी ॥ नीवारेभ्यो जग्मुः । इत्यत्र "गम्यस्याप्ये" [१२] इति चतुर्थी ॥ प्रामं नेयुः पुराय नेयुः । इत्यत्र “गते:" [१३] इत्यादिना वा चतुर्थी । अनाप्त इति किम् । अध्वानं यान्तः ॥ कृयोगे तु परत्वात्पध्येव । स्वातेर्गन्तु ॥ द्वितीयवेत्यन्ये । चित्रां गन्तुः ॥ चतुर्थी चैत्यन्ये । विशाखायै गन्तुः ॥
१वी न्ते चा.
१सी महा. क्षी'. २ बी एफ द इवाम्बुद उ. ३ एफ रित्वेनाति ४थी मन. ५ ए बी तुमर्षे. ६ सी डी तुर्थ्यवेत्य. ७ ए खाये ग.