________________
२२४
व्याश्रयमहाकाव्ये
[मूलराजः]
रात्स्यन्ति देवतास्तुभ्यं नाथ किं मह्यमीक्षसे । एवमाराधयन्सांयात्रिकेभ्यः कुलयोषितः ॥ २४ ॥ २४. कुलयोषितः सांयात्रिकेभ्यः पोतवणिग्भ्यः प्रस्तावाहीपान्तरे जिगमिषुभ्य आराधयन् । द्वीपान्तरजिगमिषुपोतवणिजां क्षेमलाभादिविषयं देवं पर्यालोचयन् । सविचारमूचुरित्यर्थों ने त्वकुलीना इव संभावितचिरकालीनविरहरूपमहापराधविधानरुष्टत्वात्तांश्चक्रुशुः । कथमित्याह । हे नाथ वल्लभ रात्स्यन्ति देवतास्तुभ्यं तव द्वीपान्तरे गच्छतः क्षेमलाभादिविषयं देवं समुद्रदेवताद्या देवता: पर्यालोचयिप्यन्ति तव क्षेमलाभादिविषये देवता: सांनिध्यं करिष्यन्तीत्यर्थः । अतः कि मह्यमीक्षसे मम विरहेसौ पतिव्रता भीरुः कथं भविष्यतीति क्षेमाक्षेमादिविषयं दैवं किमिति निरूपयसि । देवताप्रसादात्त्वयि क्षेमाभ्युदयादिमति त्वदेकशरणाया मम नितरां क्षेमाभ्युदयाद्येवेति मद्देवचिन्तया त्वयाँ न खेद्यमिति भाव एवम् । यद्वा कुलयोषित: सायात्रिकेभ्य आराधयन् । पोतवणिजां गमनविषयमभिप्रायं विचारितवत्या विचारपूर्वमूचुरित्यर्थः । कथमित्याह । हे देव देववन्ममाराध्य हे नार्थ ता मत्सपत्न्यस्तुभ्यमात्स्यिन्ति अकुलीनत्वेनासतीत्वादेतेस्मत्पतयः परपुरुषाभिसरणविघ्नाः कदा देशान्तरं यास्यन्तीति तव गमनाभिप्राय पोलोचयिष्यन्ति न तु वयं कुलीनत्वात्तस्मात्कि मामाक्षसत्या अभिप्रायः कीदृश इति विमतिपूर्व किमिति निरूपयसि । अहं त्वाद्वरहं क्षणमपि नाभिलषामीत्यर्थः । एवम् सांयात्रिकाणां कुलयोषिता च बहुत्वपि प्रत्येकं स्वस्वभारं प्रति भणनविवक्षया तुभ्यमित्यादावेकबचनम् ॥
१ एफ न्तर जि. २ सी न कु. ३ बी एफ त्वात्ताश्चु.सी लाभ्याइ डी त्वादिभ्याश्च. ४ डी न्तरमिच्छ. ५ एफ मादि'. ६ सीडी ७ ए या निखें. ८ डी मात्रारा'.९ ए °थ म.१० ए रात्सन्ति. ११ एयर