________________
[हिं० २.२.५७ ]
सृतीयः सर्गः।
२२३
दुग्धं दकल्पत | जज्ञे स्वात्यम्बु मुकाभ्यः ॥ धारिणोत्तमणे । शरदे धारयणम् । इत्यत्र "रुचिल्लप्यर्थ" [५४] इत्यादिना चतुर्थी ॥
ध्वानः प्रत्यशृणोन्मैत्री शिखिभ्योनुगृणन्धनः । तस्मै प्रतिगृणन्तस्तेप्याशृण्वन्केकयाथ ताम् ।। २३ ।। २३. ध्वानर्जितैः कृत्वा शिखिभ्यो मयूरेभ्योनुगृणन शिख्युक्तमनुवदन्निव प्रशंसतो वा शिखिनः प्रोत्साहयन्निव धनो ध्वानरेव मैत्रीमान्तरप्रीतिं शिखिभ्यः प्रत्यशृणोदिव मेघदर्शनमात्रोतशिखिकेकानन्तरमेव गर्जनादगीचकारेव । अथ घनस्य मैत्रीप्रतिश्रवणानन्तरं केकया तस्मै घनाय प्रतिगृणन्तो धनोतमनुवदन्त इव प्रशंसन्तं वा धनं प्रोत्साहयन्त इव । तेपि शिखिनोपि तां मैत्री तस्मै केकया आशृण्वन्निव गर्जानन्तरमेव केकायनादगीचक्रुरिव । शरद्यपि हि मेघा गर्जन्ति तद् श्रवणाच शिखिनः प्रीताः केकायन्ते । अतश्चैवमुत्प्रेक्षा । अत एव शिखिघनानामाख्यातृत्वार्थिते उपपद्यते । उत्प्रेआद्योतकाचेवशब्दा अत्रावसीयन्ते । यौ हत्यन्तं निग्धौ वयस्यौ भवतस्तावन्योन्यमुक्तमनुवदन्तौ प्रशंसयोत्साहयन्तौ चावां मिथो वयस्याविति वाचापि मानसी प्रीति प्रतिजानते ॥
शिखिज्यो मैत्री प्रत्यशृणोत् । तस्मै तामाशृण्वन् । इत्यन "प्रति" [५६] इत्यादिना चतुर्थी ॥ अर्थिनीति किम् । शिखिभ्यो मैत्री प्रत्यशृणोदित्यत्र मैत्र्यां मा भूत् ॥
तस्मै प्रतिगृणन्तः । शिखिम्योनुगृगन् । इत्यत्र "प्रत्यनोः" [५५] इत्यादिना चतुर्थी ॥ आल्यातरीति किम् । तस्मै केकया प्रतिगृणन्त इत्यत्र केकायां मा भूत् ॥
१ सी अथाप .डी अथापि ध. २ सी र्जाश्राव'. ३ सी डी पद्यते ।। ४ एफ मुक्ताम' ५ एफ नाति शि. ६ वी प्रत्येत्या'. ७ सी थी । आख्या. ८ एफत् प्र.