________________
__ २२२
व्याश्रयमहाकाव्ये [मूलराजः] जज्ञे स्वात्यम्बु मुक्ताभ्यो दुग्धं दने न्वकल्पत । ___ रिक्तोपि न ययौ मेघः शरदे धारयन्नृणम् ॥ २२ ॥
२२. नुरुपमार्थे । यथा दुग्धं दध्नेकल्पत दधिरूपविकारमापन तथा स्वातिशब्देन स्वातिनक्षत्रयुतरवियुक्तः काल उपचारादुच्यते । स्वातावम्बु मेघजलं स्वात्यम्बु मुक्ताभ्यो जज्ञे मुक्ताफलरूपं विकारमापन्नम् । शरदि दुग्धानि दधीनि चान्यतुसकाशात्प्रचुराणि विशिष्टानि च स्युरित्युपमानेनोक्तम् । तथा स्वातौ जलकणा ये के चन शुक्तिमुखेषु पतन्ति ते सर्वेपि मुक्ताः स्युरिति प्रसिद्धिः । तथा मेघो रिक्तोपि जलवर्जितोपि न ययौ । उत्प्रेक्ष्यते । शरद ऋणं धारयन्नु ध्रियते तिष्ठति स्वरूपान्न प्रच्यवते ऋणं कर्तृ तद्भियमाणं प्रयुञ्जान इव । - णिको हि रिक्तो द्रव्यरहित ऋणशोधनाशक्तत्वाद्यत्रोत्तमर्णेन राजाज्ञया ध्रियते तस्मात्स्थानान्न गच्छति ॥
गुणैः संजानानाः । प्रेम संजानानाः । इत्यत्र "समो शोस्टतौ बा" [५] इति वा तृतीया ॥ अस्मृताविति किम् । रतेः संजानन्तः ॥
दासीभि. संप्रायच्छन्त । इत्यत्र "दामः" [५२] इत्यादिना तृतीया । दाम आत्मनेपदं च ॥ अधर्म्य इति किम् । हस्सै संप्रायच्छत् । अत्र "चतुर्थी" [५३] इति संप्रदान चतुर्थी ॥ मुदेभवत् । इत्यत्र “तादर्थ्य" [५५] इति चतुर्थी ॥ रुच्यथैः प्रेये । आत्मने रोचनात् । कमै सदते ॥ लप्पर्विकारे । १ एल्पतः ।.
१बी सी डी एफ युक्तर'. २ एफ "युक्तका. ३ सी मुक्ताफ : ४ सी न्यत्सर्वस. ५एफ प्रेक्षते ।. सी युजन. डी युजत ६. ७ सी हि रत्तों. ८ एफ नासत्ता. ९डी कश्चान्यत्रो'. १० एफ ई. ११ एफ ते । कृप्य.