________________
(है• २.२.५८] तृतीयः सर्गः।
२२५ असाधयन्न पुत्रेभ्यो दारेभ्यो ददृशुर्न च । पोषुर्लाभाय राध्यन्तोपश्यन्तः श्रान्तयेध्वगाः ॥२५॥ २५. अध्वगा: पान्थाः पुत्रेभ्यो नासाधयन् । अस्मद्विरहेमी कथं भविष्यन्तीति पुत्राणां क्षेमाक्षेमादिविषयं दैवं नाचिन्तयन् । एवं दारेभ्यो ददृशुर्न च । किं तु लाभाय राध्यन्तो वृद्धिं विचारयन्तोत एव श्रान्तयेपश्यन्तो मार्गखेदमविचारयन्तः सन्तः प्रोषुः । शरदि हि पान्था व्यवहारार्थ देशान्तरं यान्ति ॥
सुम्यं रात्स्यन्ति । मद्यमीक्षसे । इत्यत्र "यद्वीक्ष्ये राधीक्षी" [५८] इति चतुर्षी। राधीक्ष्यर्यधातुयोगेपीच्छन्त्यन्ये । सांयात्रिकेम्य आराधयन् । पुत्रेभ्यो नासाधयन् । राधिरपरपठितचरादिर्णिगन्तो वा । साधिर्णिगन्त एव । दारेभगो ददृशुः। राधीपर्थविषयाद्विमटव्यादिच्छत्यन्यः । लाभाय राध्यन्तः । शन्तयेपश्यन्तः ॥
लोहिनीव तडिज्योत्स्ना तापाय विरहे हि तत् ।
खैणं स्म श्लाघते पत्ये तिष्ठते शपते हुते ॥ २६॥ २६. विरहे सति हि यस्माज्योत्स्ना लोहिनीव तडिल्लोहिता विधुदिव तापायासीत् । लोहिता हि विद्युत्सन्तापाय स्यात् । यदुक्तम् ।
पाताय कपिला विधुदौतपायातिलोहिनी । पीता वर्षाय विज्ञेया दुर्भिक्षाय भवेत्सिता ॥ इति । तत्तस्मात्रैणं पत्ये श्लाघते स्म तिष्ठते स्म शपते स्म हुने स्म ।
१ एटिज्योत्ला.
१ एफ °मादि. २वी मीक्ष्यसे. ३ ए भीक्षार्थ. ४सीडी विस ५ वी दातापा. ६वी र्षा च वि. ७सी क्षायामवसि.