________________
[है० २.२.४७ ] तृतीयः सर्गः।
२१९ गर्जितैः कृतम् अद्भिर्भवतु । विद्युतालम् । किं त्वया । इत्यत्र “कृताधैः" [१७] इति तृतीया ॥
मघाभिः पायसं श्राद्धं मघासु ब्रह्मचर्यवत् ।
श्रुत्या स्मृतौ च प्रसिता विदधुर्विधिनोत्सुकाः ॥ १७ ॥ १७. द्विजा मघोभिर्मघाभिश्चन्द्रयुक्ताभिर्युक्ते काले पायसं दुग्धसंवन्धि श्राद्धं पितृतर्पणं विदधुर्यथा मघासु ब्रह्मचर्य विद्धः । किंभूताः सन्तः । श्रुत्या वेदे स्मृतौ च धर्मशास्त्रे च प्रसिता नित्यप्रसक्तोः श्रुतिज्ञाः स्मृतिज्ञाश्च । अत एव विधिनोत्सुका विधिर्वामजान्ववनमनयज्ञोपवीतापसव्यत्वकरणादिस्तत्रात्यन्तं प्रसक्ताः । शरदि हि श्राद्धपक्षः स्यात्तत्र चावश्यं श्राद्धकृद्भिग्रह्मचर्य विधीयते । यत्स्मृतिः ।
ताम्बूलं दन्तकाष्ठं च स्निग्धस्नानमभोजनम् । रत्यौषधपरान्नानि श्राद्धकृत्सप्त वर्जयेत् ।। १ ।। अन्यथा तद्रेतः पितृमुख उपतिष्ठतीति । तत्र चावश्यं मघाश्चन्द्रेण युज्यन्ते । ततस्तास्वपि श्राद्धकृतो ब्रह्मचर्य विदधति । अत एवोपमाद्वारेणोक्तं मघासु ब्रह्मचर्यवदिति । तथा मघासु पायसमेव श्राद्धं संकल्परूपं क्रियते । तथा च पितृसंहितायां पितृवचः ।
अपि नः स कुले जायाद्यो नो दद्यात्रयोदशीम् । पायसं मधुसर्पियो वर्षासु च मघासु च ।। इति । न तु पिण्डप्रदानादि क्रियते प्रत्यवायात् । तदुक्तं स्मृतौ ।
मघायां पिटुंदानेन ज्येष्ठपुत्रो विनश्यति । इत्यादि ।
१ ए सी डी घाटिमि. एफ पाभिश्च. २ ए सी काः प्रति. ३ ए सी स्मृति ता. ४ सी एफ पादस. ५ ए वी सी एफ पिभ्या व. ६ सी डी एफण्टप्रदा.