________________
व्याश्रयमहाकाव्ये
२२०
[मूलराजः
उत्सुकाः करदानेवबद्धाः कृष्या पशुष्वपि ।
व्रीहीन विद्रोणान् द्विद्रोणान् द्विद्रोणैश्च तिलान्ददुः ॥१८॥ १८. कृष्या महीकर्षणे पशुष्वपि गोमहिज्यादिषु चावबद्धा नित्यप्रसक्ता अत एव करदाने । करः कृषिपशुचारणादिकृतराजकीयभूम्युपभोगहेतुको राजग्राह्यो भागः । तस्य दान उत्सुका अत्यन्तं प्रसक्ता असाधारणविशेषणोपादानाद्वाम्याः करोद्राहकराजपुरुषेभ्यो ददुः। कान् । ब्रीहीन । किभूतान् । द्रोणश्चतुःषष्टिः कुडवाः । द्वौ द्रोणौ मानमेषां “मानम्" [६.४.१६८] इतीकणो “भानान्यद्विालुव्" [६.४.१४०] इति लुपि वीप्सायां द्विरुक्तौ च द्विद्रोणान्विद्रोणान् । तथा द्विद्रोणेश्व तिलान् । चो भिन्नक्रमे । द्विद्रोणमानाद्विद्रोणमानास्तिलांश्च । शरदि हि प्राम्याः सस्येषु निष्पन्नेषु राजकरं ददते ॥
क्रौञ्चान्सहस्रं सहस्र पञ्चकेनान्वजीगणन् । सहस्रेण शुकान् गोप्यः पञ्चकं पञ्चकं रसात् ॥ १९ ॥ १९. गोप्यः क्षेत्ररक्षिका नार्यः सहस्रं सहस्रं क्रौञ्चान्पक्षिभेदान् रसात्कौतुकात्पश्चकेन पञ्च संख्या मानमस्य "संख्या उते." [६.४.१३० इत्यादिनाके पश्चकः संघस्तेनान्वजीगणन्पश्च पश्च कृत्वा गणितवत्य इत्यर्थः । तथा सहस्रेण सहस्रसंख्यान् सहस्रसंख्यान् शुकान पञ्चकं पञ्चकमन्वजीगणन् । पञ्चकं पञ्चकमित्यत्र शुकसामाना करण्याप पञ्चकशब्दाद्राह्मणाः संघ इतिवदेकवचनम् । शरदि हि क्रौञ्चाः शुकाश्च बाहुल्येन स्युः ।।
१ ए हसहश्र प° २ ए बी हश्रेण.
१ एफ 'दाग्राम्या.. २ एफ टिकु. ३वी दिप्लु. ४ सी "दि प्रा. ५ एफ न क्रौ.