________________
[है० २.२.४२.]
तृतीयः सर्गः।
२१३
विजयदशम्यां कुम्भमुत्पाट्य तेभ्यः स्थानेभ्यो रानादिभवनमागत्य रानादिमहायजमानान्प्रामुखानुदसुखान्वा शुचिवस्त्रान्फलहस्तान् शा. न्तिमत्रोच्चार पूर्व शान्तयेभिषिञ्चन्ति ॥
अधीयानर्दिनमपि च्छन्दो नाग्राहि माणवैः । गोपीगीत्या हृदोद्धान्तैः समेन विषमेण च ।। ७ ।। ७. अपिभिन्नक्रमे । दिनं सकलदिवस व्यायाधीयानैरपि पठनिरपि माणवैवटुभिग्छन्दो जयदेवादि वेदो वा नाग्राहि नागमितम् । केन कृत्वा । समेन तुल्यलक्षणलक्षितपादचतुष्टयेन श्रियादिसमच्छन्दसा विषमेण च भिन्नलक्षणलक्षितपादचतुष्केण पदचतुरूर्वादिविषमच्छन्दसा च । यद्वा समेन लक्षणया सुखपाठ्यस्थानकेन विषमेण च दुःखपाठ्यस्थानकेन च । यतो गोपीगीत्या गोपीनां शाल्यादिरक्षिकाणां स्त्रीणां गानेन हेतुना हृदा कृत्वोद्धान्तैः शून्यचित्तैः । शून्यचित्तेन बहुपठ्यमानमपि हि शास्त्रं नागच्छति ॥
धान्येनार्थ इतीन्द्रस्य मासा पूर्व पयोमुचः।
कौतुकेनार्थिनः पौरा स्तम्भेनाद्राक्षुरुत्सवम् ॥ ८॥ ८. धान्येनार्थः कामिति हेतोर्य इन्द्रस्य स्तम्भेन महाध्वजपताकाकलितोन्नतस्थूणादण्डेनोपलक्षित उत्सँवस्तं पौरी अद्राक्षुः । किंभूताः सन्तः । कौतुकेनार्थिनोभिलापुकाः । केत्याह । पयोमुचो वर्षाऋतोः सकाशान्मासा मासेन पूर्वम् । 'पूर्व तु पूर्वजे । प्रागमे श्रुतभेदे च' इत्यभिधानादप्रत आश्विनपूर्णिमायामित्यर्थः । इन्द्रमहोत्सवो हि श्वेताश्विनाष्टम्या आरभ्य पूर्णिमां यावद्विधीयते । तथा चावश्यकचूर्णावस्वाध्यायप्रस्ताव १बी डी रा स्त १ सी पति ॥. २ ए डी दिवेंदो. ३ ए बी सी डी एफ ादि'. ४ डी तमुत्स. ५ सी डी त्सव पौ. ६ सी रा आद्रा. ७ बी त्यर्थेमि'.