________________
२१२ द्याश्रयमहाकाव्ये
मूलराजः] ___दिनं रक्षन्त्यः । क्रोशं व्यस्तारयन् । अन्न "काल" [२] इत्यादिना द्वितीया ॥ भावादपीच्छन्त्यन्ये । गोदोहं नाति युः ॥
पारायणं नवाहेनाधीत्य कोशेन चाशिषम् । गोदोहेन द्विजा याज्यानभ्यषिञ्चन्यथाविधि ॥६॥ ६. गोदोहेन गोदोहमात्रकालव्याप्त्या यथाविधि वेदोक्तशान्तिमनोधारणादिविध्यनुसारेण याज्यानपामात्यादियजमानान् द्विजा अभ्यषिञ्चन्नस्नपयन् । कि कृत्वा । नवाहेनाश्विनश्वेतप्रतिपदादिदिननवकस्य नवरात्रनाम्नो व्याप्या पारोय्यते गम्यतेनेन पारायणं वेदग्रन्थमधीत्याध्ययनेन समाप्य पूर्ण गुणयित्वेति यावत् । तथा क्रोशेन यावता कालेन कोशो गम्यते क्रोशप्रमाणक्षेत्रव्याप्त्या चाशिषं च सप्त"शतिकाभिधां सप्तशतप्रमाणां चण्डिकास्तुतिं चाधीत्य गुणयित्वा । शरदि हि पारायणिका द्विजा आश्विनश्वेतप्रतिपदि देवायतनेषु दर्भशलाकैकशतमयब्रह्ममूर्तेरप्रतः कुकमादिसुरभिद्रव्याढ्यजलभृतं कुम्भ स्थापयित्वा ततो महानवमी यावदभुक्ता ब्रह्मचारिणो भूशायिनः पारायण कात्रुयेन तथाधीयते यथा नवमे दिने पूर्णीस्यात्तथा महाप्रभावत्वेन सप्तशतिकां च चण्टिकास्तुतिं महाशिषं गुणयन्ति । तथा च मार्कण्डेयपुराणे चण्डिकोक्तिः ।।
शरत्काले महापूजा क्रियते या च वार्षिकी। तस्यां ममैतन्माहात्म्यमुच्चार्य श्राव्यमेव च ॥ १ ॥ एतन्माहात्म्यं समशतिकोक्तम् । तदेवं पारायणं महाशिषं चाधीत्य १ सी एफ न वाशि. १ सी डी दोहन ना २ एफ मप्ययु. ॥. ३ सी डी थि देवोक्त ४५ या पने. ५ ए सी ते तेन ६ बी सी डी °ण देवय ७ सी डी पून ८ ए माणच. ९ सी एफ वमी या . १० सी म् । एवेदे एव डीम् । एनदेव परा. ११ ए एफ देव पा.