________________
[है. २.२.३३.] द्वितीयः सर्गः । आभीरी आभीरजातिक्षत्रिया ग्राहरिप्वादयस्तांस्तेन लक्ष्यीकृत्य चे. यदि त्वं समराय चलितः कृतप्रयाणस्तदा हा प्राणेशान् कष्टं वल्लभानां मृत्युकालावाप्तेः । अत एव विधि देवं धिग् गर्हामहे । इत्येवं प्रकारेण वैरिटेणानि भाविस्वपतिमरणनिश्चयेन प्रलपेयुराक्रन्देयुरित्येवं मां प्रतिभाति मम प्रतिभासते । इत्यहं जानामीत्यर्थः । ननु अाहरिप्वाधरयोप्यातेशूगस्तत्तान्प्रति मयि रणायोद्यतेपि तत्पत्नीनां स्वभर्तृमृत्युनिश्चयेन विलापः कथं त्वया विमृश्यत इत्याह । यतस्त्वं पार्थमतिस्थाना वृद्धोर्जुनस्यातिक्रमेण चलेन स्फीत. । अर्जुनादपि वलिष्ठ इत्यर्थः ।।
नृपेन्द्र । इत्यत्र "मामध्ये" [३२] इति प्रथमा ।। मित्र समया । दुर्ग निकषा । हा प्राणेशान् । धिविधिम् । अन्तरा से। भवनी दिवमन्तरेण । पार्थमति । येन सुराष्ट्राम् । वेनाभीरान् । इत्यत्र "गौणात्" [३३] इत्यादिना द्वितीया । बहुवचनादन्येनापि युक्ताद्भवति । मा प्रतिभाति ॥ धातुसंबद्धोत्र प्रतिखेन "भागिनि घ" [३५] इत्यादिना न । सिध्यति । मत्तमयूरं छन्दः ॥ भथ मनमुपसंहरन्नाह । उपर्युपरि भूभृतोध्यधि बनान्यघोधोम्बुधी
न्द्विषोभिगदितेमुना पुलकभृद्वपुः सर्वतः । भुजावुभयतः क्षिपन् दृशमथो उदस्थानृपः
स्थितौ तमभितश्च तौ परित उत्थितस्ता जनः ॥११॥ ११०. नृपो मूलराज उदस्थात् । कोहक्सन् । वपुः सर्वतोगस्य १ एफ इत्याचार्यश्रीहेमचन्द्राचार्यविरचिते शब्दानुशासनद्याश्रयमहाकाव्ये प्रभातमत्रवणनो नाम द्वितीयः सर्गः समाप्त. ॥
१एफ राजा. २ ए लक्षीकृ. ३ एफ ग्विधम् ।. ४ ए गिनीवेत्या'. सी 'गिनवेत्या.