________________
[मूलराजः]
व्याश्रयमहाकाव्ये
२०८
सर्वेषु प्रदेशेपु पुलकभृत् । क सति । भूभृतो गिरीनुपर्युपरि वनानि काननान्यध्यध्यम्वुधीनधोधः सर्वत्र क्रियाविशेपणादम् । सप्तमी वा । द्विप इत्यत्रेतिशब्दोध्याहार्यः । ततोयमर्थः । भूभद्वनाम्वुधीनां प्रत्यासन्नं द्विषो ग्राहरिप्वादिशत्रवो वर्तन्त इत्येतस्मिन्नमुना जम्बकेनाभिगदिते भणिते । यद्वा भूभृद्वनाम्बुधीनां समीपे वर्तमानान्द्विषः शत्रूनभिलेक्ष्यीकृत्यामुना गदिते पूर्वोक्तरीत्या भणने द्विषन्नामश्रवणोद्भूतवीररसोलासवशेन सर्वाङ्गीणरोमाञ्चाञ्चित इत्यर्थः । तथा मद्दोर्दण्डयोः सतो: केद्यापि शत्रव इत्यहङ्कारेणोत्पन्नरणकण्ड्वा भुजावुभयतो दृशं क्षिपन् द्वयोरपि भुजयोरुपरि दृष्टिं व्यापारयन् । अथो भिन्नक्रमे नृप इत्यतो ज्ञेयः । अथो नृपोत्थानानन्तरं तं नृपमभित उभयपार्श्वयोः स्थिती सन्तौ तौ जम्वकैजेहुलावुदस्थाताम् । उदस्थादित्येवार्थवशाद्विवचनान्ततया योज्यम् । तथा चो भिन्नक्रमे जन इत्यतो ज्ञयः । तान्नृपंजम्बकजेहुलान्परितः सर्वतो मन्त्रमण्डपवहिःस्थितो जनश्च परिवारलोकश्वोत्थितः । नृप उदस्थादित्यनेनातनसर्गे ग्राहारि प्रति नृपस्य प्रस्थानं वर्णयिष्यत इति सूचितम् ।।
भधोधोम्बुधीन् । अध्यधिवनानि । उपर्युपरि भूभृतः । इत्यत्र "द्वित्वेधः" [३४] इत्यादिना द्वितीया ॥
वपुः सर्वतः । भुजावुभयतः । तमभितः । तान्परितः । इत्यत्र "सोभय" [३५] इत्यादिना द्वितीया ॥ पृथ्वी छन्द ॥
। इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा
भिधानशब्दानुशासनद्याश्रयवृत्ती द्वितीयः सर्गः समर्थितः ॥
१ सीम् । स्वस . २ ए एफ जम्बुके ३ एम्बुद्धीस. ४ ए एफूल क्षीकृ. ५ डी भणिते दि.६ डी झीण '. ७ बी र नृ. ८ एफू तो जम्बुक ९ए कहेहु. १०सीडी जेहला'. ११ एफ जम्बुक. १२ सी डी रित प्र