________________
[है० २.२.२५ ]
द्वितीयः सर्गः।
२०१
अमुं ग्राहारिमहोरात्रम् । एतेन भक्त्यतिशयोक्तिः । भजन्ति । एतेन वलसंपदतिशयोक्तिः । तत्तस्मात्तद्वधाय ग्राहारिहतये क्रोशान् शतं कोशशते दूरदेश इत्यर्थः । एतेन यदि सेनानीः कथमपि तेन भज्येत तदानस्थैर्भवद्भिरस्य साहाय्यं कर्तुं दुःशकमित्युक्तम् । सैन्यपतिं दिशनाज्ञापयंस्त्वं दात्रेण तरुं लुनासि यथा महत्वात्तात्रेण च्छेत्तुं न शक्यते तथा त्वहण्डेशेनापि ग्राहारिरित्यर्थ. ॥
अभिनिविश्य पार्श्वम् । इत्यत्र "वाभिनिविशः" [२२] इति कर्म वा ॥ व्यवस्थितविभापेयम् । तेन व चित्कर्मसंज्ञैव । व चिदाधारसंज्ञैव । शास्त्रेभिनिविष्टं ॥
काल । त्रुटिमुदास्ते निशि समुत्थितम् । अध्वा । योजनमस्ति क्रोशेस्ति । भाव । गोटोहमुदास्ते शालिपाकेप्यशायिनम् । देश । नरकमास्यते स्वपुर्या वसतः । इत्यत्र "कालावं" [२३] इत्यादिना कालादिराधारः कर्म वा । अकर्मच । यत्रापि पक्षे कर्मसंज्ञा तत्राकर्मसंज्ञापि वा भवतीत्यर्थः । तेन नरकमास्यते इत्यत्र सकर्मकत्वाद्वितीया । अकर्मकत्वाच्च भाव आत्मनेपदम् ॥ अन्ये तु सकर्मकोणामकर्मकाणां च प्रयोगे कालाध्वभावानामत्यन्तसंयोगे सति नित्यं कर्मत्वमिच्छन्ति । भजन्त्यहोरात्रममुम्।क्रोशान्सैन्यपतिं दिशन् । गोदोहमुद्यममत्यजन्तः॥ दात्रेण तरु लुनासि । इत्यत्र “साधक" [२४] इत्यादिना करणसंज्ञा॥ तद्वधाय दिशन् । इत्यत्र "कर्माभि" [२५] इत्यादिना संप्रदानसंज्ञा ॥
१ डी 'शतदू. २ ए बी सी डी में । व्य. ३ डी टः । का'. ४ ए सी ध्वत्या . बी एफू ध्वभावेल्या. ५ एफ में । अ'. ६ एफ पि म. ७ एफ काणा च. ८ए जन्ति हो . ९ वी जन्तन् । दा. १० बी ना कार". ११ सी-सहा ।