________________
२००
ध्याश्रयमहाकाव्ये
[मूलराजः]
अथ प्रतिज्ञातं सत्यमेव वृत्तनवकेन वदन्प्राग्ग्राहारेर्दुर्गसंपदलसंपदादिबलिष्ठतया दुःसाध्यत्वप्रतिपादनेन ग्राहारिं हन्तुं ससैन्यं दण्डनेतारं प्रेषयेति जेहुलवाक्यमाक्षिपस्तस्य स्वयमास्कन्धतां वृत्तत्रयेणाह॥ क्रोशे गिरियोजनमधिरस्य दुर्ग स्वपुर्यां वसतोस्त्यमुं तत् । समुत्थितं निश्यपि शालिपाकेप्यशायिनं मा स्म मथाःमुसाधम् १०१
१०१. अस्य ग्राहारेः स्वपुर्या वामनस्थल्यां वसतः क्रोशे गिरिरुजयन्ताद्रिस्तथा योजनं क्रोशचतुष्टयब्धिश्च दुर्ग दुर्गस्थानमस्ति । गिरिरधिश्चास्यातिनिकटं दुर्गमस्तीत्यर्थः । तत्तस्माद्धेतोरमुं प्राहारिं सुसाधं सुखजेयं मा स्म मथा मा ज्ञासीः । कीदृशं सन्तम् । निश्यपि समुस्थितमुद्यतम् । अत एव शालिपाकेपि यावता कालेन शालिः पच्यते तावत्यपि काले । शालिहि स्तोककाले पच्यत इति स्तोककालमपीत्यर्थः । अशायिनम् । दुर्गवलयुक्तत्वात्सदोद्यतत्वाञ्च दुःसाधं जानीहोत्यर्थः । क्रोशे योजनमित्यत्रैकवचनमस्य गिरिसमुद्रदुर्गयोरतिनैकठ्यज्ञापनार्थम् । अन्यथा वामनस्थलीतो गिरेः क्रोशसप्तकेव्वेश्च पञ्चयोजन्यां वर्तमानत्वाचदनुपपन्नं स्यात् । यद्वा वामनस्थल्यां तदा वास्तव्यानां तथा याहुल्यात्तथा वासाचैतदुपपन्नम् । यदि पुन हारेरन्या का चिद्राजधानी यस्याः सकाशात्कोशे गिरियोजने चाब्धिस्तां न वेद्मि । गोदोहमप्युद्यममत्यजन्तो भजन्त्यहोरात्रममुं नृपास्तत् । कोशाब् शतं सैन्यपति दिशस्तद्वधाय दात्रेण तरुं लुनासि ॥१०२।।
१०२. गोदोहमपि गोदोहकालमप्युद्यममत्यजन्त: सन्वा र
१बी "न्य ने. २ सी चपये. डी तदयेनाह. ३ बी "नस्थान्या. ४ ए साध्य क. ५ सी मोशा यो.जी मोशो यो.६ एफ गिरिः म. ७ एफ
पyि. ८वीरेन्या. ९एशेगिरियोज. १०बीडी ने वाभि