________________
[है० २.२.२१.]
द्वितीयः सर्गः ।
१९९
कीर्तः प्रदीव्यन्ति कुलं प्रदीव्यन्ति । इत्यत्र "उपसर्गाडिवः" [१५] इति वा कर्म ॥ उपसर्गादिति किम् । आरमोजतेर्तव्यन्ति ॥ अन "न" [१८] इत्यनेन नित्य कर्मसंज्ञा न ॥
कृटं दीव्यन्ति । चटुना दीव्यन्ति । इत्यत्र “करणं च" [१९] इति दीव्यतेः करणं कर्म करणं च । तेन कर्मत्वे द्वितीया करणत्वे च तृतीया ॥
चेतोधिशयीत । पापमधिष्टिताः । लोभमध्यासिताः । इत्यत्र "अधेः शी" [२०] इत्यादिना कर्म ॥
समीपमुपोपितः । सदोनूपितवान् । मौलिमधिवसेत् । सभामावसताम् । इत्यत्र "उपान्" [२१] इत्यादिना कर्म ।
अथासत्यस्य दोषान्सत्यस्य च गुणानुक्त्वा सत्यमेव वक्तुमुपक्रमते॥ तर्थशास्त्रेभिनिविष्टबुद्धेवदाम्यमिथ्याभिनिविश्य पार्श्वम् । गोदोहमीशे त्रुटिमप्युदास्ते य आस्यते द्राग्नरकं हि तेन ॥१०॥
१००. यस्मात्सत्यासत्ये पूर्वोक्तगुणदोषोपेते तत्तस्माद्धेतोरर्थशास्त्रे नीतिशास्त्रेभिनिविष्टवुद्धेः क्षुण्णमतेः सतस्ते तव पार्श्वमभिनिविश्याश्रित्यामिथ्या सत्यमहं वदामि । वर्तमानकालनिर्देशोधुनैव वदामीति भणनस्यातिशैघ्यज्ञापनार्थः । शीघ्रवदने हेतुमाह । हि यस्मादीशे स्वामिनि स्वामिकार्यविषय इत्यर्थः ॥ गोदोहं यावता कालेन गौर्दुह्यते तावन्तं कालमित्यर्थः । त्रुटिमपि।
प्रयत्नेन विमुक्तस्य यवस्य पततोम्बरात् ।
द्वियवं यावदध्वानं यः कालः स त्रुटिर्मतः ॥ इत्यतिसूक्ष्मकालमपि यो भृत्य उदास्त उपेक्षते तेन द्राग नरकमास्यते स्थीयते स्वामिनो द्रोहस्येवोपेक्षाया अपि महापापहेतुत्वान् ।।
सी हस्येवो. २ सी डी पापे हे.