________________
१९८ व्याश्रयमहाकाव्ये
[मूलराजः] अथ प्रभुकार्ये येसत्यमहितं च भाषन्ते तान् दूषयति ॥ कीर्तः प्रदीव्यन्ति कुलं च दीव्यन्त्यात्मोन्नतेस्ते किल ये हि मन्त्रे। दीव्यन्ति कूटं चटुना च लोभमध्यासिताः पापमधिष्ठिताच ॥९८॥
९८. ये मत्रिणो मचे कूटमलीकेन चटुना च चाटुकारेण च दीव्यन्ति व्यवहरन्ति । कीदृशाः सन्तः । हि स्फुट लोभं धनादिगाध्यमध्यासिता आश्रिता अत एव पापं वचनाप्रयोगमधिष्ठिताश्च । लोभान्मन्ब्रे सत्यं हितं च न भाषन्त इत्यर्थः । ते । किलेति सत्ये। कीर्तेः कुलं च प्रदीव्यन्ति । तथात्मोन्नतेः स्वमहत्त्वस्य दीव्यन्ति । कैयविकय दृतपणत्वे वा विनियुखते कीर्ति कुलमात्मोन्नति च निर्गमयन्तीत्यर्थः । तन्मत्रो हि किपाकफलमिव मुखे मधुर आयतौ नायकस्य महाविपद्धेतुरित्येतेपां कीााच्छिनत्ति ॥
अथ य: प्रभुकायें सत्यवादी तं वर्णयति ॥ भर्तुः स चेतोधिशयीत सोधिवप्लेत्सभामावसतां च मौलिम् । गुरोः समीपं स उपोषितश्च ब्रूयात्सदोषितवान् स्फुटं यः॥९९॥
९९. सदो मत्रमण्डपमनूषितवानध्यासितो यः स्फुटं सत्यं यात्स नरो भर्तुः स्वामिनश्चेतोधिशयीताध्यासीत । तथा सभामावसतामाश्रयता सभासदां मौलिमुत्तमाङ्ग मुकुटं वा सोधिवसेदारोहेत् । सवका ये प्रष्टव्यतया सभ्येपु मौलिरिवोत्तमः स्यादित्यर्थः । तथा स गुरोः समीपमुपोपितश्च गुरुकुलं सेवितवांश्च तेनैव विद्या सम्यगधीतत्ययः ॥
१सी कीति: प्र'.
१ वी ताय पिताश्य. एफ तायाधिनाश्च. २ सी डी क्रये. ३ सीसी यता ४ पी एफ मुखम ५ वी एफ हन स. ६डी या सैन्येपु.