________________
__ १८१
(हे. २.१.१०८.] द्वितीयः सर्गः। स यौवनाच्छौवनमत्ततालोलो युवत्यां मघवत्यभीरुः । कीलालपेष्वा विनिहत्य राज्ञो राज्ञीरुदस्रा निदधेवरोधे ॥ ७४ ॥
७४. स ग्राहारिः कीलालपेष्वा रक्त पिवता शरेण राझो विनिहत्य तेषां राज्ञीरुदसाः कष्टाददतीः सतोरवरोधेन्त:पुरे निदधे । यतः कीहक् । यौवनायूनो विकाराद्धेतोः शौवनमत्तताभृत् । शुन इयं शौवनी या मत्तता मदस्तां विभर्ति यः सः । श्वेव मदनोन्मादीत्यर्थः । अत एव युवत्याम् । जातावेकवचनम् । युवतिषु लोलो लम्पट: । वथा मघवत्यपि । अपिरत्र ज्ञेयः । इन्द्रस्थशत्यादिभ्योपीत्यर्थः । अभीरुर्महाशक्तित्वात् ।।
शुनी । शुनः । अतियूनी । यूनः । मघोनीम् । मघोनः । इत्यत्र "वन्" [१०६] इत्यादिना वस्य उ. ॥ डीस्यायधुदस्वर इति किम् । शौवन । यौवनात् । माधवनीम् ॥ नकारान्तनिर्देशादिह न स्यात् । युक्त्याम् । नघवति । मघवदिति प्रकृत्यन्तरं शक्रवाचकम् ॥
कीलालप । इत्यत्र "लुगातोनापः" [१०७] इत्यातो लुरु ॥ अनाप इति किम् । उदसाः ॥
राशीः । राज्ञः । इत्यत्र “भनोस्य" [१०८] इत्यनोतो लुक्॥ साम्नीव साम्नी इह ताक्ष्णवात्रघ्नस्थामनी राजनि धार्तराखे । दुष्कर्मणि सर्वणि वीक्ष्य भूम्ना मूर्धा न केघप्रतिदीनि नेमुः ॥७॥
७५. अघप्रतिदीन्यप्यघस्य पापस्य प्रतिदीनीव दिवसतुल्ये पापै
१ एफ दु.कर्म'.
१ सीरीदतीर. २ सी सीन मा.